________________
422
बृहज्जनवाणीसंग्रह
AAAAAAAAAAAAAAAAAN A
AAAAAAAA
AAAAA AAAAAAAAAAAR
यतो निरस्ताक्षकषायविद्विषः सुधीभिरात्मैव सुनिर्मलो मतः
॥ २२ ॥ न संस्तरो भद्र ! समाधिसाधनं, न लोकपूजा न च संघमेलनं । यतस्ततोऽध्यात्मरतो भवानिश, विमुच्य सर्वा 1 मपि वाद्यवासनां ॥ २३ ॥ न संति वाह्या मम केचनार्था भवामि तेषां न कदाचनाहं । इत्थं विनिश्चित्य विमुच्य वाह्यं स्वस्थः सदा त्वं भव भद्र मुक्त्यै ॥२४॥ आत्मानमात्मान्यवलोक्यमानस्त्वं दर्शनज्ञानमयो विशुद्धः । एकाग्रचित्तः खलु यत्र तत्र स्थितोपि साधुर्लभते समाधिं ॥ २५ ॥ एकः सदा शाश्वतिको मामात्मा विर्निर्मलः साधिगमस्वभावः । वहि भवाः सत्यपरे समस्ता न शाश्वताः कर्मभवाः स्वकीयाः ॥ २६ ॥ यस्यास्ति नैक्यं वपुषापि सार्द्ध तस्यस्ति किं पुत्रकलत्रमित्रैः । पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठति शरीरमध्ये ॥ २७ ॥ संयोगतो दुःखमनेकमेदं यतोऽश्नुते जन्मवने शरीरी । ततस्त्रिधासौ परिवर्जनीयो, यियासुना निर्वृतिमात्मनीनां ॥ २८ ॥ सर्वं निराकृत्य विकल्पजालं संसारकांतारनिपातहेतुं । विविक्तमात्मानमवेक्ष्यमाणो निलीयसे त्वं परमात्मतत्त्वे ॥ २६ ॥ स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभं । परेण दत्तं यदि लभ्यते स्फुटं, स्वयं कृतं कर्म निरर्थकं तदा ॥ ३० ॥ निजाजिंत कर्म विहाय देहिनो न कोपि कस्यापि ददाति किंचन । विचारयन्नेवमनन्यमानसः परो ददातीति विमुच्य शेमुषीं ॥ ३१ ॥ यैः परमात्माऽमितगतिवद्यः सर्वविविक्तो भृशम