________________
१३४"
वृहज्जेनवाणीसंग्रह
टमत्वदीयाः ॥ १३ ॥ विषापहारं मणिमौषाधानि मंत्रं समुदिश्य रसायनं च । भ्रम्येत्यहो न त्वमतिस्मरंति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वं । हस्ते कृतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ त्रिकालतत्त्वं त्वमवैत्रिलोकीस्वामीति संख्यानियतेरमीषां । बोधाधिपत्यं प्रति नाभविष्यंस्तेन्येपि चेद्वयाप्स्यदम्नपीदं || १६ || नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतु: स्वसुखस्य भानोरुद्विभ्रतछन्नमिवादरेण ॥ १७ ॥ कोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा प्रतिकूलवादः । क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविजं ते ॥ १८ ॥ तुंगात्फलं यत्तद किंचनाच्च प्राप्यं समृद्धान धनेवरादेः । निरंभसोप्युच्चतमा दिवाद्रेर्नैकापि निर्याति- धुनीपयोधेः ॥ १९ ॥ त्रैलोक्यसेवानियमाय दंडं दधे यादेंद्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥ २० ॥ श्रिया परं पश्यति साधु निःस्वः श्रीमानकश्वित्कृपणं त्वदन्यः । यथा प्रकाश स्थितमंधकारस्थायीक्षतेऽसौ न तथा तमःस्थं ॥ २१ ॥ स्ववृद्धिनिः श्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेपि मूढः । किं चाखिलज्ञेयविवर्तिबोधस्वरूपमभ्यक्षमवैति लोकः ||२२|| तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायंति कुलं प्रकाश्य । तेद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यंजति
AAAAA
AAAAA