________________
११६
वृहज्जैनवाणीसंग्रह
पाति भवतो भवतो जगति । तीव्रा तपोपहतपांथजनान्निदायें प्रीणाति पद्मसरसः सरसो ऽनिलोपि ॥७॥ हृद्वर्तिनि त्वयि विभो शिथिलीभवंति जंतोः क्षणेन निविडा अपि कर्मबंधाः । सद्यो भुजंग ममया इव मध्यभागमभ्यागते वनशिखंडिन चंदनस्य ||८|| म्रुच्यंत एव मनुजाः सहसा जिनेंद्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशुपशवः प्रपलायमानैः ॥ ९ ॥ त्वं तारको जिन कथं भविनां त एव त्वामुद्वहंति हृदयेन यदुत्तरंतः । यद्वा दृतिस्त रंतियज्ञ्जलमेष नून: मंतर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः सोपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धरवाड्वेन ॥ ११॥ स्वामिन्ननल्पगरिमाणमपिप्रपन्नास्त्वां जंतवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरंत्यतिलाघवेन चिंत्यो न हंत महतां यदि वा प्रभावः॥१२॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तास्तदा वद कथं किल कर्मचौरा : 1 प्लोषत्यमुत्र यदि वा शिशिरापि लोके नीलडुमाणि विपिनानि न किं हिमानी || १३|| त्वां योगिनो जिन सदा परमात्मरूपमन्वेषयंति हृदयांबुजकोषदेशे । पूतस्य निर्मलरुचैर्यदि वा किमन्यदक्षस्य संभवपदं ननु कर्णिकायाः ॥१४॥ ध्यानाजिनेश भवतो भविनं क्षणेन देहं विहाय परमात्मदशां व्रजेति । तीव्रानलादुपलभावमपास्य लोके
1