________________
अष्टमोऽध्यायः । ब्राह्मणात्ताएिडनश्चैव पिङ्गलाच महात्मनः। निदानादुक्थशास्त्राच छन्दसांज्ञानमुद्धृतम् ॥ १॥ यस्माच च्छादिता देवाश्छन्दोभिर्मृत्युभीरवः। छन्दसां तेन च्छन्दस्त्वं ख्यायते वेदवादिभिः॥ २॥ यथा छन्दोभिराच्छन्नान देवान्मत्स्यानिवोदके। नह्यपश्यत्पुरा मृत्युरमृतत्वं ततो गताः ॥ ३॥ छन्दोविदेव विप्रस्तु धर्मतस्तद्गुणाश्रितः। छन्दसामेति सालोक्यममृतत्वं च गच्छति ॥ ४ ॥ इत्याह गाग्र्यो गार्यः।
इत्युपनिदानं समाप्तम् ॥
(१) पाछन्ना B. (२) गतो B. (३) इति छन्दः समाप्तः ( for' इत्युपनिदानं समाप्तम् ) B2.