________________
पविकासमेतः। र्भावः । नच स्वभावकारणाख्येन लिङ्गिना विना तयोलिङ्गयोः सम्भवोऽस्ति, येन व्यभिचारः स्यात् । कस्मान सम्भव इत्याह-भेदानिमित्तताप्राप्ते:-भेदश्वानिमित्तता च तयोः प्राप्तिः । स्वभावहेतोर्मेदोऽस्वभावता प्राप्नोति, कार्यहेतोरनिमित्तत्वं निर्हेतु
त्वं प्रामोति, नच स्वभावकार्यन्यतिरेकेणान्यल्लिङ्गमिष्टमन्यत्राप्रतिबन्धादविनामावायोगात् । ते विनेति । स्वभावकार्ये । द्विवचनान्तमेतत् ॥ १४७८ ॥ यदुक्तं परार्थमनुमानं तु मानमिति तत्राह-त्रिरूपलितेत्यादि ।
त्रिरूपलिङ्गवचसः सक्तसंसूचकत्वतः। यत्परार्थानुमानवमुक्तं तच्छ्रोत्रपेक्षया॥१४७९ ॥ गौणं साङ्केतिकं चैवमनुमानत्वमाश्रितम् । सक्तसंसूचकवेन तेन नातिप्रसज्यते ॥१४८० ॥ नानुमानं प्रमाणं चेद्विफला व्याहतिस्तव ।
न कश्चिदपि वादो हि विवक्षा प्रतिपद्यते ॥१४८१ ॥ पचनस्य यत्परानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया, तेन वक्रपेक्षाभावी दोषो न भवति । श्रोत्रपेक्षयाऽपि त्रिरूपलिङ्गसूचनादुपचारेणानुमानकारणत्वात्समयाद्वाऽनुमानत्वमुक्तम् । सक्तसंसूचक एवानुमानसंज्ञानिवेशात् । तेनेन्द्रियस्याविनाभावित्वसम्बन्धज्ञानस्य च परार्थानुमानत्वप्रसङ्गादतिप्रसङ्गो न भवति, तयोः सक्तसंसूचकत्वाभावात् । अत एव दर्शनमूलयोः संविदः सकाशादस्या विशेषः । तथाहि
-दर्शनशानेन साक्षाभूमादेर्लिङ्गस्य प्रतीतिर्न तु श्रोत्रज्ञानेन, तेन हि शब्द एव साक्षाद्यते, नच शब्दो धूमवद्वाह्यस्यार्थस्य लिङ्गं विवक्षाप्रतिबद्धस्य बाह्येन सम्ब
धासिद्धेः । केवलं तस्य धूमादेर्लिङ्गस्य संसूचकत्वेन सङ्केतवशात्तथाध्यव(सा)यिविकल्पोत्पत्ते ह्यार्थापेक्षया परार्थमिति वर्ण्यते । विवक्षायां तु गम्यायां श्रोत्रपेक्षया स्वार्थमेव भवति । तथाहि-तत्कार्यत्वाभूमवद्विवक्षायां गमक इष्यते । न वाचकत्वेन । ततो ज्ञानाप्रतीतेः। विफला व्याहृतिरिति । नानुमानं प्रमाणमिवेषा । तथाहि न कश्चित्प्रतिपाद्यस्तद्वचनाद्विवक्षां प्रतिपद्यते । अनेन खवचनविरोधमाह । एतच पूर्व वर्णितमेव ॥ १४७९ ॥ १४८० ॥ १४८१॥
पुरन्दरस्त्वाह-लोकप्रसिद्धमनुमानं चार्वाकैरपीष्यत एव, यत्तु कैश्चिल्लौकिक मार्गमतिक्रम्यानुमानमुच्यते तनिषिध्यत इति । एतदाशका दूषयबाह-लौकिकमित्यादि।