________________
५३०
मुमाने विषये न विरुद्धाब्यमिचारी च सम्भवति । एकस्मिन्धर्मिणि. परस्परविजनधर्मद्वयासङ्गात् ॥ १४७२ ॥ १४७३ ॥ १४७४ ॥ . . . . . . यदुक्तमवस्थादेशकालानामित्यादि, तत्राह-अभ्यस्तेत्यादि ।
अभ्यस्तलक्षणानां च सम्यग्लिङ्गविनिश्चये। अनुमावृत्तिरन्या तु नानुमत्यभिधीयते ॥ १४७५ ॥ अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन नातः सिद्धिः सुदुर्लभा॥१४७६ ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।
नान्यथा साध्यते सोऽन्यैरभियुक्ततरैरपि ॥१४७७ ॥ सुपरिनिश्चितं लिङ्गं गमकमिष्यते न संदिग्धम् , नहि धूमो बाष्पादिरूपेण सन्दिह्यमानो वहेर्निश्चायको भवति । लिङ्गनिश्चय एव कथमिति चेत् । अभ्यासात् । यथा मणिरूपादिषु तद्विदाम् । तथाहि-विवेचयन्येव बाष्पादिभ्यो धूमादीनभ्यस्ततत्वलक्षणाः । अ(थ)विवेच्य प्रवृत्ताश्चैते प्राप्नुवन्येव वह्निम् । तस्माद्यत: मुविवेचितं लिङ्गं न व्यमिचरति, तेनावस्थादिभेदमिन्नानां सिद्धिर्न दुर्लभा । नापि सुविवेचितालिङ्गात्परिनिश्चितोऽर्थोऽन्यथा शक्यते कर्तुम् । नहि धूमात्सुपरिनिश्चितादनुमितस्य वहेरन्यथाभावः शक्यते कर्तुम् , एकस विरुद्धस्वभावद्वयायोगात् । यबोकं
-न देवदत्तो भारोद्वहनसमर्थ इत्यादि, यचाभ्रपटलं वह्निना दह्यत इति, तल्लिगमेद न भवति, त्रैरूप्याभावात् । नादर्शनमात्रेण विपक्षाद्धेतोावृत्तिः शक्यते कर्तुम् । यदाह-"नचादर्शनमात्रेण विपक्षाव्यतिरेकिता" इति । किं तर्हि । वादात्म्यवदुत्सतिसम्बन्धनियमादविनामावनियमः । यदाह- कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात्" इति ॥ नचात्र तादात्म्यतदुत्पत्तिसम्बन्धोऽस्ति ॥ १४७५ ॥ १४७६ ॥ १४७७ ॥
स्यादेतत्-सुपरिनिश्चितं लिङ्गं न व्यभिचरतीत्येतदेव कुतो नमन युक्तिरस्ती त्साह नहि स्वभाव इत्यादि ।
नहि खभावः कार्य वा स्वभावात्कारणाहते। - भेदानिमित्तताप्रास्ते विनाऽस्ति न चानुमा ॥१५७८॥ द्विविधमेव हि लिङ्गं यदुत खभावः कार्यमिति । अनुपलभेत समावेऽन्य