SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ १९८ वस्त्वसङ्ग्रहः । 'अप्ययुक्तं, स्वार्थेऽपि परार्थत्वप्रसङ्गात्, आपेक्षिकत्वात्परत्वा, पारावारयत् ॥ १४६३२॥ ।। १४६४ ।। १४६५ ।। १४६६ ।। १४६७ ॥ त्रिरूपलिङ्गेत्यादिना प्रतिविधत्ते J त्रिरूपलिङ्गपूर्वत्वं ननु संवादिलक्षणम् । तल्लक्षणं च मानत्वं तत्किं तस्मान्निषिध्यते ॥ १४६८ ।। तत्र प्रथमे प्रयोगे त्रिरूपलिङ्गपूर्वत्वादित्यस्य हेतोर्विरुद्धतामाह -संवादिलक्षणमिति । संवादित्वमनेन लक्ष्यत इति कृत्वा । यतस्त्रिरूपलिङ्गजं यज्ज्ञानं तत्पारम्पर्येण वस्तुनि प्रतिबद्धमतोऽविसंवादकं प्रत्यक्षवत् । यथाह - " लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवश्वनम् ॥” इति । तल्लक्षणं चेति । अविसंवादलक्षणम् । यथाह - " प्रमाणमविसंवादिज्ञान" मिति । नहि प्रत्यक्षेऽपि तत्प्रमाणवादिनाऽन्यत्प्रमाणव्यवस्थानिबन्धनं शक्यमादर्शयितुमन्यत्राविसंवादात् । स च त्रिरूपलिङ्गजन्येऽप्यस्तीति किमिति तस्मान्निरूपलिङ्गपूर्वत्वादविसंवादित्वहेतोः प्रामाण्यं निषिध्यते । एतेन साध्यसाधनयोरर्थतो विरोध उक्तः । तथाहि —-यत्र त्रिरूपलिङ्गपूर्वत्वं तत्राविसंवादित्वं यत्राविसंवादित्वं तत्र प्रामाण्यं, प्रामाण्याप्रामाण्ययोश्च परस्परपरिहारस्थितलक्षणो बिरोध इति सामर्थ्याद्विरुद्धो हेतुर्निर्दिष्टः ।। १४६८ ।। मिथ्याज्ञानमित्यादिना दृष्टान्तस्य साध्यविकलतामाह । मिथ्याज्ञानं समानं च पूर्वपक्षव्यपेक्षया । इष्टघातकृता जन्यं ज्ञानमुक्तं न वस्तुतः ॥ १४६९ ॥ वस्तुस्थित्या हि तज्ज्ञानमविसंवादि निश्चितम् । वादीष्टविपरीतस्य प्रमाणमत एव तत् ॥ १४७० ॥ अतो विरुद्धता हेतोर्दृष्टान्ते चाप्यसाध्यता । एतेनैव प्रकारेण द्वितीये हेत्वसिद्धता ॥ १४७१ ॥ यतो वाड़ीष्टविपरीतसाधनाचदपि प्रमाणमेव, अन्यथा हि साध्यान्तरमपेक्ष्य सवेदैव सर्वस्य यद्यप्रामाण्यं व्यवस्थाप्येत, प्रत्यक्षेऽपि प्रसङ्गः स्यात् । पूर्वपक्षापेक्षया तुवन्मिथ्याज्ञानमुक्तम् न वस्तुस्थित्या । पूर्वस्य- प्रथमवादिनः पक्षः, पूर्वपक्ष:तस्म उपपेक्षेति विग्रहः । यो झनाधेयातिशयैकपरा ( वा १) त्वं चक्षुरादीनामिच्छति
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy