________________
पलिकासमेतः। न शक्यते निश्श्रयः कर्तुम् । इत्येवमादि । अवस्थादेशकालानामिति मेदावित्येतदपेन्य षष्ठी । भावानामिति प्रसिख्यपेक्षया । तथा वृणाविषु निश्चितदहनसामर्थ्यसामेरभ्रपटले तत्सामर्थ्य प्रतिहन्यते, न च तत्रैवमनुमातुं शक्यते-अभ्रपटलममिना दाते पार्थिवत्वात्तृणादिवदिति । तथाऽन्येनान्यथा प्रतिपादितोऽर्थः पुनरमियुक्तरेणान्येनान्यथा प्रतिपाद्यत इत्यनिष्टा ॥ १४६० ॥ १४६१ ॥ १४६२ ।।
परार्थमनुमानं तु न मानं वक्रपेक्षया। अनुवादान्न तेनासौ खयमर्थ प्रपद्यते ॥ १४६३ ॥ श्रोतृव्यपेक्षयाऽप्येतत्वार्थमेवोपपद्यते। श्रोत्रदर्शनमूलायाः को विशेषो हि संविदः ॥ १४६४ ॥ न परार्थानुमानत्वं वचसः श्रोत्रपेक्षया । श्रोतृसन्तानविज्ञानहेतुत्वज्ञापकत्वतः ॥ १४६५ ॥ यथेन्द्रियस्य साक्षाच नानुमेयप्रकाशनम् । तमावस्याविनाभावसम्बन्धज्ञानवन्न तत् ॥ १४६६ ॥ अयोच्यते परार्थत्वं परव्यावृत्त्यपेक्षया।
तदप्ययुक्तं.खाणेपि परार्थवप्रसङ्गतः ॥ १४६७॥ .. अन्यः पुनराह-परार्थमनुमानं वक्रपेक्षयाऽनुवादत्वान्न प्रमाणम् । श्रोत्रपेक्षया तु खार्थमेव, को हि विशेषः श्रोत्रद्वारेण तमर्थ प्रतिपद्यते दर्शनद्वारेण चेति । यथा दर्शनेन्द्रियस्य व्यापारे सति परार्थव्यपदेशो न भवति, एवं श्रोत्रेन्द्रियव्यापारेऽपि माभूदिति । दर्शनम्-चक्षुरिन्द्रियम् । दृश्यतेऽनेनेति कृत्वा । संविद इति । सा. नस्य । वथा न श्रोत्रपेक्षया वचनस्य परार्थानुमानत्वम् , श्रोतृसन्तानवर्तिज्ञानहेतुत्वात् , झापकत्वावा, इन्द्रियवदिति । श्रोतृसन्तानविज्ञानहेतुत्वं च ज्ञापकत्वं चेति द्वन्द्वेन हेतुद्वयनिर्देशः । यथेन्द्रियस्येति दृष्टान्तनिर्देशः । अयमपरः प्रयोगः-न परार्थानुमानत्वं वचनस्य श्रोत्रपेक्षया, साक्षादनुमेयाऽप्रकाशकत्वात् , अविनाभावसम्बन्धमानवत् । तस्माविति । साक्षानुमेयाप्रकाशकत्वात् । यस्मात्साक्षादनुमेयाप्रकाशकत्वं तस्मान प्रोत्रपेक्षया वनसः प्रामाण्यमविनाभावसम्बन्धज्ञानवदिति वाक्यायः । अविनाभावः साम्येन साधनस, स एव सम्बन्धा साध्येन यस लिमस वस मानमिति विग्रहः । अथ परल्यापारापेक्षया तदुच्यते पराये इति । तया