________________
परिकासमेतः। विज्ञातार्थाधिगन्तृत्वान्न प्रमाणमिदं यदि । मार्तवत्याक्तनोऽप्येतत्समानं किं न वीक्ष्यते ॥१४५३ ॥ अन्तरालप्रवृत्तस्य सन्देहस्य निवर्तनात् । .... आधिक्यं तत्र चेदेतदत्रापि सदृशं न किम् ॥ १४५४ ॥ तमास्किमस्ति नास्तीति सन्देहविनिवृत्तिकृत् ।
स एवेति निराकासमेतत्सामान्यदर्शनम् ॥ १४५५ ॥ आकृति:-जातिः । यदीत्यभ्युपगमे । जातिव्यक्त्योः परेणैक्यस्येष्टत्वाकुतो व्यक्तिविनाशे जातेरवस्थानं संभवति, अन्यथा मिन्नयोगक्षेमत्वादेकान्तेन तयोर्मेदोऽभ्युपगन्तव्यः स्यात् । भाव इति । अयमभ्युपगमवाद एव । एकदा तावजातिविसरेण निरसैवेति कुतस्तस्याः सत्त्वम् । मावेऽपि-सत्त्वेऽपि । तस्या अपि क्षणभाः प्राप्नोति । व्यापिनः क्षणभङ्गय प्रसाधनात् । अपि च-यदाऽनुमानपरिच्छि पुनरपि तत एव लिङ्गात्तमेव वहिं परिच्छिनत्ति, तदाऽपि विशेषतो दृष्ठं किं न वर्णिलम् , येन प्रत्यक्षतो दृष्ट इति विशेषणमिष्टम् । अधिगतार्थाधिगन्तृत्वादिति चेत् । न । प्रत्यक्षदृष्टेऽपि तत्तुल्यम् । अन्तरालवर्तिसन्देहनिवर्त्तनमधिकं प्रत्यक्षदृष्टेsस्तीति चेन्न । अनुमानदृष्टेऽपि समानमाधिक्यम् । तस्मात्सर्वत्रैव सामान्यतो दृष्टमेव क्षणक्षयिषु भावेष्वनुमानं न विशेषतो दृष्टं नाम ॥ १४५० ॥ १४५१ ॥ ॥ १४५२ ॥ १४५३ ॥ १४५४ ॥ १४५५ ॥
न प्रमाणमिति प्राहुरनुमानं तु केचन ।
विवक्षामर्पयन्तोऽपि वाग्भिराभिः कुदृष्टयः ॥ १४५६ ॥ केचिदिति । बार्हस्पत्यादयः । आभिरिति । नानुमानं प्रमाणमित्येवंरूपामिः । अनेन स्ववचनविरोधमाह । तथाहि-वचनाल्लिङ्गाद्विवक्षा प्रतीयत इति मन्यमानेन परस्मै खामिप्रायनिवेदनाय व्याहरता दर्शितमनुमानस्य प्रामाण्यम् , नच तत्प्रमाणमिति झुवता तदेव प्रतिषिद्धमितीतरेतरव्याघातः । एतच्च दूषणं पश्चान्यक्तीकरिवते ॥ १४५६॥
त्रिरूपलिङ्गपूर्वत्वाखाथै मानं न युज्यते । इष्टयातकृता जन्यं मिथ्याज्ञानं यथा किल ॥१४५७ ॥ भावादननुमानेऽपि न चानुमितिकारणम् । देख्न्यमिव लिङ्गस्य त्रैरूप्यं नास्त्यतोग्नुमा ॥ १५५८ ॥