________________
१२४
तत्त्वसहः । तोऽनुमितौ-सामान्यतोदृष्टानुमाने उदाहरणत्वेनामिधूमान्तरत्वे वाच्ये यद्भाष्यकारणादित्योदाहरणं कृतं तत्सर्वकालमादित्यगतेरप्रत्यक्षत्वादेकान्तेन । अत्राऽऽवित्यगती सामान्यतोदृष्टमेवानुमानं सम्भवति न विशेषतोदृष्टमिति मन्यमानेनासङ्कीर्ण विषयं दर्शयितुमादित्य एवोदाहरणत्वेनोच्यते, न पुनरमिधूमयोः सामान्यतोदृष्टस्वैवानुमानस्साभावादिति ॥ १४४३ ।। १४४४ ॥ १४४५ ॥ १४४६ ॥ तदत्रेत्यादिना दूषणमाह
तदत्र क्षणभङ्गस्य व्यापिनः प्रतिपादनात् । प्राक्तनस्यैव तेनैव नानुमानस्य सम्भवः ॥ १४४७॥ कल्पितं चेत्तदेकत्वं प्रबन्धैक्यविवक्षया ।
न तस्यावस्थितिः काचिद्वस्तुत्वं नच भाविकम् ॥१४४८॥ व्यापिन इति । अग्निधूमादिसकलपदार्थव्यापकस्य । सत्यपि क्षणिकत्वे प्रबधैकत्वादेकत्वमिति चेदाह-कल्पितमिति । तदा कल्पितमेकत्वं न पारमार्थिक, परमार्थतस्तु न कस्यचिदवस्थितिः । ततश्च तदेशस्थेन तेनैवेत्येता युज्यते । नापि कल्पितस्य वस्तुत्वं, ततश्च सन्दिपमानसद्भाववस्तुबोधादित्यसम्बद्धं स्यात् ॥१४४७॥ ॥ १४४८॥ - अथापि स्मात्कल्पनासमारोपितमेवैक्यमाश्रित्य विशेषतो दृष्टमाख्यातम् , न भाविकमित्याह-नचेत्यादि ।
नच निर्विषयं ज्ञानं युष्माभिरनुमन्यते ।
विकल्पितार्थतायां च व्यक्तं निर्विषयं भवेत् ॥ १४४९ ॥ . स्यादेतद्यद्यपि व्यक्तिर्विनाशिनी जातिस्त्वनपायिनी विद्यते, ततश्च भाविकमेकत्वं भविष्यति, नच निर्विषयत्वमित्याह-व्यक्तिरूपेत्यादि ।
व्यक्तिरूपस्य नाशेऽपि तिष्ठत्येवाकृतिस्तयोः। यदि न क्षणभङ्गार्भावे तस्या अपि ध्रुवम् ॥ १४५०॥ प्रत्यक्षदृष्टः सम्बन्धो ययोरेव विशेषयोः । इत्ययं नियमचोक्तो युष्माभिः केन हेतुना ॥ १४५१ ॥ दृष्ट्वैकदानुमानेन तस्यैव पनुमा पुनः। . प्रमाणं नेष्यते कस्मात्को विशेषो हि पूर्वके ॥१५५२॥ .