________________
ક
पत्रिकासमेतः। गृहीतमनुमिमीते तद्विशेषतोदृष्टमनुमानम् , पूर्वप्रत्यक्षगृहीतविशेषविषयत्वात् । नच गृहीतग्राहित्वादप्रमाणम् , यतः किं वह्निरास्ते परिनिवृत्तो वेति सन्देहविनिवृत्तेरधिकाया विद्यमानत्वात् । इति पिण्डार्थः । अवयवार्थस्तूच्यते-प्रत्यक्षदृष्टसम्बन्धमिति । को सम्बन्धः । अत्रोच्यते । शबरस्वामिनाऽनुमानलक्षणमुक्तम्-अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसन्निकृष्टे बुद्धिः । तद्विविधं प्रत्यक्षदृष्टसम्बन्धं सामान्यतोदृष्टसम्बन्धं च । प्रत्यक्षदृष्टसम्बन्धो यथा-धूमाकृतिदर्शनादम्याकृतेर्विज्ञानम् । सामान्यतोदृष्टं यथा-देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्यादि. त्यस्य गतिस्मरणमिति । तत्र कुमारिल एतत्प्रत्यक्षतोदृष्टसम्बन्धमनुमानं व्याचिख्यासुराह-प्रत्यक्षेत्यादि । प्रत्यक्षे दृष्टसम्बन्धमनुमानमेवं प्रचक्षत इति सम्बन्धः। यतः पूर्वस्मिन्ननन्तरश्लोके एवं प्रचक्षत इति प्रकृतम् । ययोरिति । ययोरेवानिधूमविशेषयोर्विषयभूतयोर्गोमयेन्धनविशेषबुद्धिः कृता-उत्पादिता पुरुषेण-गोमयेन्धनप्रभवावेतावग्निधूमाविति, तथा पर्वतादिदेशविशेषमतिः कृता-एतत्पर्वतादिदेशविशेषस्थावेवावनिधूमाविति । गोमयमिन्धनं ययोरमिधूमयोस्तौ गोमयेन्धनौ, म देशो ययोस्तौ वद्देशौ गोमयेन्धनौ च तौ तद्देशौ चेति विग्रहः । तावेव विशेषौ ता. वादी येषां सर्जसरलसल्लकीवनप्रभृतीनां वह्नयादिविशेषान्तराणां तानि गोमयेन्धनतदेशविशेषादीनि । तेषु मतिरिति सप्तमी(ति)योगविभागात्समासः। सा-एवम्भूता प्रत्यक्षा मतिर्येन प्रमात्रा कृता-उत्पादिता, स तदेशस्थेन तेनैव धूमादिना लिङ्गेन तमेवाग्निं कालान्तरेण यदा बुध्यते । पुनः पुनरिति सम्बन्धः । तदा तस्य बोधस्य पूर्वबोधात्प्रत्यक्षात्मकात्प्रमाणता-प्रमाणान्तरतेत्यर्थः । अथवा-पूर्वबोधात्कारणातमेव वहिं बुध्यत इति सम्बन्धः । किमास्ते वहिराहोखिन्निवृत्त इत्येवं सन्दिपमानः सद्भावो यस्य वस्तुनस्तत्तथा, तञ्च तद्वस्तु चेति तत्तथा, तस्य बोध इति विग्रहः । एतच्च यथोक्तं प्रत्यक्षदृष्टसम्बन्धमनुमानं विशेषतो दृष्ठमनुमानमित्येवं विन्ध्यवासिना गदितम् । सामान्यतो दृष्टमाह-अग्निधूमेत्यादि । भाष्यकारेण हि सामान्यतो। दृष्टानुमाने देशान्तरप्राप्त्याऽऽदित्यगतिस्मरणमुदाहृतम् । तत्रेदं चोधं भवति-ननु चाम्यन्तरे धूमान्तरे च सामान्यधर्मसमाश्रयेण यदाऽनुमितिः क्रियते तदा सामान्यतोदृष्टमनुमानममिधूमयोरस्त्येव, किमिति भाष्यकारेणामिधूमौ बुद्धौ विपरिवर्त्तमानत्वेन प्रत्यासावुत्सृज्याऽऽदित्य एव सामान्यतोदृष्टावुदाहृत इत्येतबोधमाशप कुमारिलो भाष्यकारामिप्रायं वर्णयमाह-अग्निधूमान्तर इति । सामान्य