________________
you
तस्वसहा न्यापायां प्रवृत्ती सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् । उच्यते । संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् । निश्चयहेतोरपि कथं प्रामाण्यम् । अवसायोत्पादनादर्थिनस्तत्र प्रवर्तनादिति चेत् । तदेत
संशयहेतोरपि तुल्यम् । यद्यपि तत्र प्रतीयमानार्थिताकारविपरीतो व्यवसाय:,' तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्तकत्वम् , तथाऽवसितस्यानर्थितत्वात् । नापि निवर्तकत्वं, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्तनात् । अन्यथा हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्तेत नापि निवर्तेतेति प्राप्तं, न चैवं भवति, अपि त्वर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तरेव बलीयस्त्वम् । अनेन चांशेन निभयहेतोः प्रत्यक्षादस्य न कश्चिद्विशेषः । यत्र त्वेकान्तेन प्रतीयमानार्थविपरीताकारावसायहेतुत्वमेव, अवसायानुत्पादकत्वं वा, तत्र तस्य सर्वथार्थिनोऽप्रवर्त्तनादप्राभाण्यमेवेति युक्तं वक्तुं, नान्यत्रेत्यलम् ॥ १३५९ ॥ १३६० ॥ १३६१ ॥
इति प्रत्यक्षलक्षणपरीक्षा। अनुमानस्येदानी लक्षणमाह-स्वपरेत्यादि ।
खपरार्थविभागेन त्वनुमानं द्विधेष्यते। खार्थ त्रिरूपतो लिङ्गादनुमेयार्थदर्शनम् ॥ १३६२॥ त्रिरूपलिङ्गवचनं परार्थ पुनरुच्यते ।
एकैकद्विद्विरूपोऽर्थो लिङ्गाभासस्ततो मतः ॥ १३६३ ॥ अनुमान स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थ यत्रिरूपाल्लिङ्गात्पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाच सर्वतो व्यावृत्तिरित्येवंलक्षणादनुमेयार्थविषयं ज्ञानं तदात्मकं बोद्धव्यम् । परार्थ तु यथोकत्रिरूपलिङ्गप्रकाशकवचनात्मकं द्रष्टव्यम् । अथानुमानामासस्य किं लक्षणं नोक्तमित्याह-एकैकेत्यादि । नित्यः शब्दः कृतकत्वान्मूर्तवादप्रमेयत्वादित्येकैकरूपो यथाक्रमं पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्रस्य विधमानत्वात् । तत्र द्विद्विरूपो यथा-ध्वनिरनित्यश्चाक्षुषत्वाच्छ्रावणत्वादमूर्तत्वादिति यथाक्रमं पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्राभावात् । तदुक्तम्-"कृतकत्वानिर्नित्यो मूर्तत्वादप्रमेयतः । अमूर्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वतः ॥” इति । ॥ १३६२ ॥ १३६३ ॥