________________
पखिकाममेवः। बलभावविशेषप्रतिपिपादविषया लक्षणं प्रणयन्ति तदितः । यथा पुषिन्या सा खटलं (खरत्वम्) । अन्यथा सम्भवितादोषेण दुष्टं स्यात् । नच प्रत्यक्षस कल्पनापोढाधान्तत्वाभ्यामन्यलक्षणमुपलक्षकमस्ति । तथाहि-तदवश्यमभ्रान्तमश्रीकर्चव्यं प्रमाणत्वात् । कल्पनापोडं च साक्षात्खलक्षणविषयत्वात् । खलक्षणस्यः चाशक्यसमयत्वेन तत्संविचरनमिजल्पत्वस्य प्रसाधितत्वात् । अतो न्यायानुयातमेव लक्षणमेव तदाचक्षते कुशलाः । न चाप्यतो लक्षणात्प्रेक्षावतां प्रवृत्तिनिवृत्ती न भवतः । तथाहि-घटोत्क्षेपणसामान्यसामादिज्ञानस्य प्रत्यमिक्षाप्रत्ययस्य च तथा पीतशताविज्ञानस्य परैः प्रत्यक्षत्वेनोपकल्पितस्य यथायोग सविकल्पकत्वेन प्रान्तत्वेन वा प्रत्यक्षत्वमवधार्य तद्विषयत्वेनोपकल्पितस्य समादेर्वस्तुत्वामिनिवेशानिवर्तन्ते । यव निर्देश्यं नीलादि खलक्षणं तदेव वस्त्वित्यवसाय तत्र प्रवचन्ते । यथाच निर्विकल्पस्यापि प्रत्यक्षस्य प्रवर्तकत्वं तथा प्रागुक्तमेव । यद्येवं कल्पनापोढत्वमेवैकं लक्षणं कर्तुं युक्तं नत्वभ्रान्तमिति । तथाहि-प्रवृत्तेः प्राग्यदेव सिद्धं रूपं तदेव प्रवृत्तिकामानां लक्षणत्वेन प्रणेतुं युक्तं नाप्रसिद्धमसत्तुल्यत्वात्तस्य । नचाभ्रान्तत्वनिअयोऽर्थक्रियासंवादात्प्रागस्ति, न ह्यग्दिर्शनातत्कार्याधिगममन्तरेण यथार्थतां ज्ञानस्य ज्ञातुमीशते, तेषां नित्यं पदार्थशतः कार्यानुमेयत्वात् । यथोपदर्शितार्थप्रापणसामर्थ्यलक्षणत्वाच यथार्थतायाः । न चोत्तरकालं यथार्थतावधारणेऽपि साफल्यमस्ति, ततः पुनरप्रवृतेः । तदेतदचोधम् । तथाहि केशोण्डूकादिबुद्धीनामपि प्रामाण्यप्रसङ्गान्माभूदतिव्यापिता लक्षणदोष इत्यतोऽवश्यकरणीयमभ्रान्तमहणमित्युक्तम् । यश्चापि प्रवृत्तेः प्रागनिश्चयहेतुराग्दर्शित्वमुच्यते, सोऽप्यनैकान्त एव । को पत्र प्रतिबन्धो यदग्दिर्शिमिर्न कचित्सामर्थ्य निश्चितव्यमिति । एवं हि न किंचिनिश्चेयमिति प्राप्तम् । ततश्चाचेतनत्वमेव तेषामायातम् । यावता पशुशिशवोऽप्यभ्यासबलादुतभूतज्ञानवासनावृत्तयः सुखस्य साधनमेतदेतदसुखस्येति प्रवृतेः प्रागपि निश्चित्य प्रपातादि परिहरन्तः स्तनादि चोपाददानाः संदृश्यन्त एव । तयाप्रभूतमपि भावयतां कामशोकभयाद्युपप्लुतचेतसामनपेक्षितसाधादिस्मृतेरभ्यासस्य स्फुटप्रतिभासस कानोत्पादनसामर्थ्यमुपलभ्यत एव । यत्र तु पुनर्नाभ्यासस्तत्र तेषां कार्यानुमेयैव शक्तिर्न तु सर्वत्र । एतेन धूमादिलिगनिश्चयोऽपि व्याख्यातः । यतखत्रापि तबाद?)तत्कार्यस्य धूमादेः प्रकृत्या परस्परमत्यन्तविविक्तखभावत्वात् , कद्विवेकनिनयस पाभ्यासाविहेतुत्वाल्लिनिश्चयसम्भवादतो नानुमानप्रतिक्षेपः । न.