SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ पलिकासमेतः। अन्यथेत्यादिना पात्रखामिमतमाशङ्कते अन्यथाऽनुपपन्नवे ननु दृष्टा सुहेतुता। नासति त्र्यंशकस्यापि तस्माक्लीवास्त्रिलक्षणाः ॥१३६४ ॥ - स ह्याह । अन्यथाऽनुपपन्नत्व एव शोभनो हेतुर्न तु पुनखिलक्षणः । तथा सत्यन्यथानुपपन्नत्वे व्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता । तस्मात् क्लीबा:-असक्ताः, त्रिलक्षणा हेतव इति । अन्यथेति । साध्येन विनाऽनुपपन्नत्वं, हेतोः साध्य एव सत्त्वमित्यर्थः ॥ १३६४ ।। अन्यथेत्यादिना सविस्तरमन्वयव्यतिरेकसंदर्शनेनान्यथानुपपन्नत्वैकलक्षणं हेतुं समर्थयते। अन्यथाऽनुपपन्नत्वं यस्यासौ हेतुरिष्यते । एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा ॥ १३६५ ॥ एक लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परीक्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इति चतुर्लक्षणकोऽपि वा भवतु । न वा चतुर्लक्षणो यस्मात्कचिदेकलक्षणो द्विलक्षणस्त्रिलक्षणोऽपि वा न्याय्यः, यस्मादन्यथानुपपत्तिरेकं लक्षणं तेनैकलक्षण इति व्यपदिश्यते, अन्यथाऽनुपपत्तिसहितां सजातीयसिद्धतां विजातीयव्यावृत्तिं चाभिसमीक्ष्य द्विलक्षणः, अन्यथानुपपन्नत्वं सजातीयवृत्तिः साध्यविपक्षाच व्यावृत्तिरिति विलक्षणः । न तु पक्षधर्मत्वादिलक्षणधर्मत्रययोगात्रिलक्षणहेतुरिष्यते । तस्य सम्यग्ज्ञानं प्रति हेतुत्वानुपपत्तेः ॥ १३६५ ॥ अथवा प्राधान्यादन्यथाऽनुपपत्तिनामधेयेनैवैकलक्षणव्यपदेशो न तु पक्षधर्मत्वादिमिस्तेषामप्राधान्यादकिञ्चित्करत्वाद्वेत्येतद्दर्शयन्नाह-यथेत्यादि । यथा लोके त्रिपुत्रः सन्नेकपुत्रक उच्यते। तस्यैकस्य सुपुत्रत्वात्तथेहापि च दृश्यताम् ॥ १३६६ ॥ ' ननु चाविनाभावसम्बन्धात्रिरूपस्यैव सहेतुता युक्तेत्याह-अविनेत्यादि । अविनाभावसम्बन्धस्त्रिरूपेषु न जातुचित् । अन्यथाऽसम्भवैकाङ्गहेतुष्वेवोपलभ्यते ॥ १३६७ ॥ अन्यथासम्भव एकमङ्गं येषां ते तथोक्तास्ते च ते हेतवश्वेत्यन्यथासम्भवैकाङ्गहे. तवः ॥ १३६७ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy