________________
पविकासमेतः।
.३88 मिनप्रमाणफलवादिनं प्रति बौद्धनोक्तम्-यदि प्रमाणफलयोमेंदोऽभ्युपगम्यते तदा मिन्नविषयत्वं स्यात्प्रमाणफलयोः । न चैतद्युक्तम् । नहि परश्वादिके छेदने ख. विरप्राप्ते सति पलाशे छेदो भवति । तस्मात्प्रमाणफलयोरेकविषयत्वादभेद इति । अन्त्रोक्तं कुमारिलेन-"विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् । साध्यसाधनयो/दो लौकिकस्तेन बाधितः ॥ छेदने खदिरप्राप्ते न पलाशे छिदा यथा । तथैव परशोलोंके छिदया सह नैकता ॥” इति । छेद्यतेऽनेनेति छेदनम् ॥ १३४५ ॥ नेत्यादिनोत्तरमाह।
न व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः।
निराकारे तु विज्ञाने सा संस्था न हि युज्यते ॥१३४६ ॥ नीलास्पदं संवेदनं न पीतस्येति विषयावगतिव्यवस्थाया अर्थसारूप्यमेव निवन्धनं नान्यदिति व्यवस्थाप्यव्यवस्थापकभावेन साध्यसाधनव्यवस्था, नोत्पद्योत्पादकभावेन, यस्मान्न पारमार्थिकः कर्तृकरणादिभावोऽस्ति, क्षणिकत्वेन निर्व्यापारत्वा. सर्वधर्माणाम् । ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवाभाति । अयमेवार्थप्रापणव्यापारो ज्ञानस्य, न त्वविनामावित्वमात्रम् । नहि बीजाद्यविनाभाविनोऽङ्कुरादयो न भवन्ति । ये(न) ज्ञानमेव प्रमाणं स्यात् । तस्मासाकारमेव ज्ञानं प्रमाणं न निराकारमिति व्यवस्थया प्रामाण्येन प्रदर्श्यते । व्यवस्था च तत्पृष्टलब्धेन विकल्पेन वेदितव्या ॥ १३४६ ॥ अत उलेक्षित इयादिना लोकप्रसिद्ध्यबाधामाह ।
अत उत्प्रेक्षितो भेदो विद्यते धनुरादिवत् ।
उत्पाद्योत्पादकत्वेन व्यवस्थेयं तु नेष्यते ॥ १३४७॥ धनुरादिवदिति । धनुर्विध्यति धनुषा विध्यति धनुषो निःसृत्य शरो विध्यतीति यकस्य धनुषः कर्तृत्वादयः कल्पिता न विरुध्यन्ते तथेहापीति ॥ १३४७ ॥
विश्लिष्यमाणसन्धौ च दार्वादौ परशुच्छिदा। - प्रविशनुच्यते तेन तत्रैकत्वमवस्थितम् ॥१३४८ ॥ परशुना च वृक्षादेश्छिदा निरूप्यमाणा छेचद्रव्यानुप्रवेशलक्षणैवावतिष्ठते स चानुप्रवेशः परशोरात्मगत एव धर्म इति परमार्थतश्छिदया सहकत्वमिति नाति बि. रोधः ॥ १३४८॥