________________
तस्वसहः।
__व्यवसायामित्यादिनैतदर्शयति ।
व्यवस्थायां तु जातायां कल्प्यतामन्यथापि हि।
उत्पाद्योत्पादकत्वेन संस्थानविधिरुच्यते ॥ १३४९॥ यथा कुमारिलेन परिच्छेदफलत्वेत्यादिना प्रन्थेनोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थाकृता, तथाऽस्माकमप्यविरोधिन्येव । यथोक्तमाचार्येण-"तत्रापि हि प्रत्यक्षत्वोपचारोऽविरुद्धश्चक्षुरादिषु तत्कारणेष्वि"ति । एतावत्तु ब्रूमः-अवश्यमादौ व्यवस्थाद्वारेणैव साध्यसाधनसंस्था कर्तव्या, न ह्यव्यवस्थाप्य संविद्भेदं विषयभेदेन नियमेन प्रवृत्तियुक्ता, संविद्वेदव्यवस्थायाश्च सारूप्यमेव निबन्धनमिति सामर्थ्यादेवायातं सारूप्यस्य साधकतमत्वं, सारूप्यादेव च ज्ञानस्य प्रवर्तकत्वम् । प्रवर्तकस्य च प्रमाणत्वं प्रवृत्तिकामेन निरूप्यते, न व्यसनितया । यथोक्तम्- "अर्थक्रियार्थ हि सर्वः प्रमाणमप्रमाणं चान्वेषते प्रेक्षावानि”ति । यतो येनैवांशेन प्रवर्तकत्वं ज्ञानस्य भवति स एव दर्शनीयः, न चोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थायां प्रव
कांशः सारूप्यं गम्यते, ततश्च निष्फलमेवोत्पादद्वारेण प्रमाणव्यवस्थानं स्यात् । अतएवाचार्येणैतहारेण प्रमाणव्यवस्थानं न प्रवृत्त्यङ्गमिति मत्वैवोपचार आश्रितः । तस्माजातायां तु व्यवस्थायां साऽन्यथाऽयुत्पाद्योत्पादकभावेन कल्प्यताम् । तथाऽफ्यदोष एवेति ॥ १३४९ ॥ परिच्छेदेत्यादिना तदेव कौमारिलं फलव्यवस्थानं दर्शयति ।
परिच्छेदफलत्वेन वृत्तस्यानन्तरस्य हि । कारणत्वं मतं ज्ञाने प्रमाणे तु फलं परम् ॥ १३५० ॥ खसंवित्तिफलत्वं चेनिषेधान्नैव युज्यते।
माने च विषयाकारे भिन्नार्थत्वं प्रसज्यते ॥ १३५१ ॥ वृत्तस्येति । प्रवृत्तस्य चक्षुरादेरित्यर्थः । फलं परमिति । हानोपादोनापेक्षाबुद्विलक्षणम् । इदमपरमुक्तं कुमारिलेनैव-खसंवेदनस्य निषेधात्तस्य प्रमाणफलत्वमयुक्तम् । विषयाकारस्य च प्रामाण्ये सति प्रमाणफलयोनिविषयत्वं प्रसज्यते । तथाहि-विषयाकारो बाह्यविषयः खसंवेदनं तु ज्ञानस्वरूपविषयमिति ॥१३५०॥ ॥ १३५१ ॥