________________
तत्त्वसङ्ग्रहः ।
शङ्करस्वाम्याह-न ज्ञानस्वभावाः सुखादयः, ज्ञानमित्यव्यपदेश्यत्वात्, घटा
दिवदिति ।। १३४० ॥ यद्येवमित्यादिना दूषणमाह
VE
यद्येवं समयान्यत्वे ज्ञानमित्यपि नो गतिः । चेतस्यस्ति ततः प्राप्ता तत्राप्यज्ञानता तदा ॥ १३४१ ॥
यदि सङ्केतान्यत्वेन स्वभावान्यत्वं स्यात्, एवं सति यदा ज्ञानेऽपि कश्चिदज्ञानमिति समयं कुर्यात्तदा ज्ञानमित्यपि चेतसि व्यपदेशो नास्तीति प्राप्ता ज्ञानेऽप्यज्ञा
नता भवतः ।। १३४१ ॥
व्यक्तं प्रकाशरूपत्वान्नो चेदेवं प्रसज्यते । सुखदुःखादिके तुल्यं तच सर्वमिदं न किम् ॥ १३४२ ॥ भूतार्थ भावनोद्भूतं कल्पनाभ्रान्तिवर्जितम् । वक्ष्यामो योगविज्ञानं साधनैर्विमलैरलम् ॥ १३४३ ॥
अथ प्रकाशात्मकं ज्ञानं स्पष्टमनुभूयत इति नाज्ञानता स्यादेवं सति सुखादिष्वपि सर्वमेतत्समानम् । हेतुश्चानेनैव व्यमिचारी (ति) न किंचिदेतत् । वक्ष्याम इति । सर्वज्ञसिद्धौ ॥ १३४२ ॥ १३४३ ॥
प्रमाणफलविप्रतिपत्तिनिराकरणायाह – विषयेत्यादि ।
विषयाधिगतिश्चात्र प्रमाणफलमिष्यते ।
स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतापि वा ॥ १३४४ ॥ बाह्येऽर्थे प्रमेये विषयाधिगमः प्रमाणफलं, सारूप्यं तु प्रमाणम् । स्वसंवित्तावपि सत्यां यथाकारमस्य प्रथनात् । ज्ञानात्मनि तु प्रमेये स्वसंवित्तिः फलम्, योग्यता प्रमाणम् । सव्यापारप्रतीततामुपादाय ज्ञानस्यैव सा तादृशी योग्यता । येन तदे - वात्मानं वेदयते न घटादय इति योग्यतया करणभूतयैवात्मप्रकाशकं लक्ष्यते ज्ञानमिति योग्यतायाः स्वसंवेदने प्रामाण्यम् । तदुक्तम् — “ तत्राप्यनुभयात्मत्वात्ते योग्याः स्वात्मसंविदः दुः । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥” इति ॥ १३४४ ॥ छेदन इत्यादिना कौमारिलचोद्यमाशङ्कते ।
छेदने खदिरप्राप्ते पलाशे न छिदा यथा ।
तथैव परशोलोंके छिदया नैकतेति चेत् ॥ १३४५ ॥