________________
३९.
पलिकासमेतः। लम्बने न चक्षुरादिज्ञानेन, तस्य बाह्यालम्बनत्वात् , अन्तःसंवेद्यमानत्वाच सुखादीनां मानसेनैव चेतसा वेद्यत्वेनेष्टत्वात् । नच तस्मिन्काले मानसस्य चेतसः संभवः, क्रमेणैव ज्ञानान्युत्पद्यन्त इत्यभ्युपगम्यते । अथापि स्याजन्मैव ज्ञानानां क्रमशाभ्युपगतं न स्थितिरिति । एतच्चासम्यक् । सर्वजन्मिनां क्षणिकत्वस्य प्रसाधितत्वात् । आशु वृत्त्या सकृद्धान्तिरपि या साऽपास्तैव पूर्वम् । किञ्च-आहादपरितापिरूपेण स्पष्टः प्रतिभासो न प्राप्नोति, विकल्पविषयत्वे सति सुखादीनां मानसेनैव चेतसा वेद्यत्वेनाभ्युपगमात् । तस्य च सविकल्पकत्वात् । न च विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता । अस्माभिस्तु खविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन जनितस्यैव प्रत्यक्षत्वेनाभ्युपेतत्वात् । अपि च प्राह्यत्वे सति सुखादीनां विच्छिमप्रतिभासिता स्यान्नीलादिवत् । न च ज्ञानाद्विच्छिन्नस्य शाताविरूपस्योपलब्धिः । ज्ञानाभेदेन शातादिरूपस्य ग्रहणं भ्रान्तिरिति चेत् । एवं तर्हि सिद्धा सुखादीनां सत्ता खसंविदूपा । शातादिरूपमात्रलक्षणत्वात्सुखादीनाम् । तद्रूपता चेज्ज्ञानस्य सिद्धा, सिद्धा ज्ञानस्वभावाः सुखादयः । व्यतिरिक्तानां त्वसिद्धत्वाद्धान्यसिद्धेः। शातेत्यनुकूला, तद्विपरीता त्वशाता, आदिशब्देनोपेक्षा गृह्यते । यदि च वसन्तानोत्पत्तिलक्षणैव सुखादीनां सत्ता स एव तेषामनुभव इति नाभ्युपगम्यते । किंतु तद्विषयज्ञानोत्पत्तिस्तदा योगिनां परकीयं सुखादि गृह्णतां तदनुभविनामिव तुल्या. तुरावस्था स्यात् । मिन्नसन्तानवतित्वान्न तुल्यावस्थेति न वक्तव्यम् । नहि वसन्तानवर्तित्वं तेषामनुगमोऽभ्युपगतः । किं तर्हि ? । तद्विषयज्ञानोत्पत्तिः । साच परसन्तानप्राहिणामप्यस्तीति समानः प्रसङ्गः । अथोभयमनुभवे सुखादीनां कारणमङ्गीक्रियते तदा वसन्तानवर्त्तित्वेनानुभवे सिद्धं सुखादीनामात्मसंवेदनम् । एवं हि खसन्तानवर्तित्वं निमित्तं परसन्तानवर्तिभ्यश्च विशेषकं भवति । यदि स्वसंविद्रूपा भवन्ति येषां तर्हि न योगिनः सिद्धा मीमांसकादीनां तेषां कथं तैः प्रसङ्ग इत्याह
-परेत्यादि । नहि बौद्धानामिव परेषां निर्विषयं परमार्थतोऽनुमानम् । ततश्च परदुःखानुमाने तुल्योऽनुभवोऽनुमातुरपि स्यात् ॥ १३३२ ॥ १३३३ ॥ १३३४ ॥ ॥ १३३५ ॥ १३३६ ॥ १३३७ ॥ १३३८ ॥ १३३९ ॥
सुखादीत्येव गम्यन्ते सुखदुःखादयो न तु। ज्ञानमित्येव गम्यन्ते तन ज्ञानं घटादिवत् ॥ १३४० ॥