________________
तत्त्वसंग्रहः। य इन्द्रियज्ञाने न्यायोऽशक्यसमयत्वं स तस्यापि तुल्य एव । यद्वा योगिज्ञानमिह मानसं, सच वक्ष्यमाणम् । सिद्धान्तप्रसिद्धत्वान्मानसस्यात्र न लक्षणं कृतं । प्रमानाबाधितत्वमाचार्येणैव प्रतिपादितमिति न प्रतिपाद्यत इति भावः ॥ १३३०॥ अवेदका इत्यादिना वैशेषिकमतमाशङ्कते।
अवेदकाः परस्यापि वविद्भाजः कथं नु ते।
एकार्थाश्रितविज्ञानवेद्यास्त्वेते भवन्ति चेत् ॥ १३३१ ॥ न केवलं स्वसंवेदना न भवन्ति, बाह्यस्याप्यर्थस्यावेदकाः । न ज्ञानस्वभावा इति यावत् । एकस्मिन्नात्मनि समवेतेन तु ज्ञानेन वेद्यन्त इति तेषां सिद्धान्तः॥१३३१॥ नैरन्तर्येत्यादिना प्रतिविधत्ते।
नैरन्तर्यप्रवृत्ते हि वाह्यवस्तूपलम्भने । सुखादि वेद्यते कस्मात्तमिन्काले निरन्तरम् ॥ १३३२ ॥ मानसेनैव यद्वेद्यमिष्यते चेतसा न च । . तत्काले तस्य सद्भावः क्रमजन्मोपवर्णनात् ॥ १३३३ । जन्मैव योगपद्येन नेष्यते न पुनः स्थितिः। इति चेन्न स्थितिस्तस्य क्षणभङ्गप्रसाधनात् ॥ १३३४ ॥ आशुवृत्तेः सकृद्धान्तिरिति चेत्साऽप्यपाकृता। विस्पष्टप्रतिभासो हि न स्यात्स्मरणगोचरे ॥१३३५ ॥ शाताशातादिरूपा च सा भ्रान्तियदि कल्प्यते । तदा प्राप्ता सुखादीनां सत्ता तन्मात्रलक्षणा ॥ १३३६ ॥ यदा च योगिनोऽन्येषामध्यक्षेण सुखादिकम् । विदन्ति तुल्यानुभवात्तद्वत्तेऽपि स्युरातुराः॥ १३३७ ॥ खस्मिन्नपि हि दुःखस्य सत्तैवानुभवो न ते । किं तु तद्विषयं ज्ञानं तचास्ति परसन्ततौ ॥ १३३८ ॥ परदुःखानुमाने च तुल्यमेतत्तथाहि तत्।
(अनुमानं स)विषयं वर्ण्यते न खगोचरम् ॥ १३३९ ॥ अनेन प्रतिज्ञायाः प्रत्यक्षविरुद्धतामाह । यदा बापवस्त्ववलम्बनज्ञानसमकालं मुखादयोऽनुभूयन्ते, तदा कतमेनैकार्थानयिणा ज्ञानेन वेघेरन्, न तावत्तेनैव बासा