________________
पखिकासमेतः।
प्रामाण्यं हि भवहाभ्यामाकाराभ्यां भवति, यथाप्रतिभासमविसंवादाद्यथाध्यवसायं वा । तत्रेह न यथाप्रतिभासमविसंवादः, पीतस्य प्रतिभासनाचस्य यथाभूतसाप्राप्तेः । नापि यथाभ्यवसायमविसंवादः, पीतस्यैव विशिष्टार्थक्रियाकारित्वेनाभ्यअसायात्, न च तद्रूपार्थक्रियाप्राप्तिरस्ति । न चानध्यवसितार्थाविसंवादेनापि प्रा. माण्यमतिप्रसङ्गात् । केशादिज्ञानेऽपि ह्यनध्यवसिताऽऽलोकादिप्राप्तः॥ १३२५ ॥ ॥ १३२६॥
अथ मन्यसे-यद्यपि वर्णोऽध्यवसितो न प्राप्यते, संस्थानं तु प्राप्यत एवेत्यत आह-न वर्णेत्यादि ।
न वर्णव्यतिरिक्तं च संस्थानमुपपद्यते।
भासमानस्य वर्णस्य न च संवाद इष्यते ॥१३२७ ॥ सुबोधम् ॥ १३२७॥ यद्याकारमित्यादिनोपचयमाह
यथाकारमनादृत्य प्रामाण्यं च प्रकल्प्यते । अर्थक्रियाऽविसंवादात्तद्रूपो बर्थनिश्चयः ॥ १३२८ ॥ इत्यादिगदितं सर्व कथं न व्याहतं भवेत् ।
वासनापाकहेतूत्थस्तस्मात्संवादसम्भवः ॥ १३२९ ॥ नैव झर्यक्रियाऽविसंवादित्वमात्रेणाकारमनपेक्ष्य प्रामाण्यं कल्पनीयम् , विषयाकारस्याप्रामाण्यप्रसङ्गात् । तद्रूप इति । ज्ञानस्थाभासरूपः । आदिशब्देन यथा यथा अर्थस्याकारः शुभ्रादित्वेन सन्निविशते तद्रूपः स विषयः प्रमीयत इत्यादिकमाचार्यायं वचनं विरुध्यत इति दर्शयति । अर्थक्रियासंवादस्तु पूर्वार्थानुभववासनापरिपाकादेव प्रमाणान्तराद्भवतीत्यवसेयम् । पीतशङ्खज्ञानस्य वासनापरिपाकहेतुः शुक्ल एव शास्तदाधिपत्येन तत्परिपाकात् । वासनापरिपाकहेतुतः समुत्थानं यस्याविसंवादस्य स तथोक्तः ॥ १३२८ ॥ १३२९ ॥ सुखादीनां कथं संवेदनप्रत्यक्षतेत्याह-मानसेत्यादि ।
मानसेन्द्रियविज्ञाननिर्विकल्पत्वसाधने ।
यो न्यायः स सुखादीनामविकल्पवसाधकः ॥१३३०॥ यो न्याय इति । अशक्यसमयत्वादिः । मानसस्य यद्यपि नोक्तो न्यायस्तथापि