________________
तत्त्वसवहः।
अन्यार्थासक्तचित्तोऽपि द्विचन्द्रादि समीक्षते। अविच्छिन्नमतो नास्ति पारम्पर्यसमुद्भवः ॥ १३२२ ॥ भावसामान्यबुद्धीनां प्रतिसंहारसम्भवे ।
निवृत्तिः संभवत्येव खेच्छयेशमतेरपि ॥ १३२३ ॥ नासिद्धा, अपि तु सिद्धैव, कस्मात् ?, अभ्रान्तेनैकचन्द्रचेतसा व्यवधानासिद्धेः। तस्योपलभ्यस्यान्तरालेऽनुपलभ्यमानत्वात् । एतदेवान्यार्थेत्यादिना स्पष्टीकुरुते । अविच्छिन्नं द्विचन्द्रादीति सम्बन्धनीयम् । अत एव तद्विकारविकारित्वस्याप्यन्यमिचारः । नहि तदपि व्यवहितं, येन वेगसरादिभिर्व्यभिचारः स्यात् । भावसामान्य. बुद्धीनामपि यदेच्छया संहारं कुरुते तदा निवृत्तिरस्त्येव । नतु केशोण्डूकादिबुद्धीनामिच्छया संहारः संभवतीति नानैकान्तिकता। इन्द्रियज्ञानस्यापि चक्षुषीच्छया निमीलिते निवृत्तिरिच्छावशात्सम्भवतीति चेत् । नहि समनन्तरमिच्छानिवृत्तौ निवर्त्तते चक्षुर्वि. ज्ञानम् । किं तर्हि ?। चक्षुर्निमीलनं तावदिच्छावशाद्भवति, ततो निवृत्ते चक्षुषि तज्ज्ञानं निवर्चते, मानसी तु भ्रान्तिः साक्षादिच्छावशान्निवर्चत इति न समानम् । इत्थं चैतदवसेयं यतः प्रणिहिते चक्षुषि द्रष्टुमनिष्यमाणोऽप्यर्थो दृश्यत एवातो नेच्छायाअक्षुरादिक्षाने साक्षात्सामर्थ्यम् ॥ १३२१ ॥ १३२२ ॥ १३२३ ॥
पीतशलादिबुद्धीनां विभ्रमेऽपि प्रमाणताम् ।
अर्थक्रियाऽविसंवादादपरे संप्रचक्षते ॥ १३२४ ॥ केचित्तु स्वयूध्या एवाभ्रान्तग्रहणं नेच्छन्ति । भ्रान्तस्यापि पीतशङ्खादिज्ञानस्य प्रत्यक्षत्वात् । तथाहि न तदनुमानमलिङ्गजत्वात् । प्रमाणं चाविसंवादित्वात् । अत एवाचार्यदिशागेन लक्षणे न कृतमभ्रान्तग्रहणम् । भ्रान्ति() संवृत्ति()साझानमनुमानेत्यादिना प्रत्यक्षाभासनिर्देशादविसंवादिकल्पनापोढमित्येवंविधमिष्टमाचार्यस्य लक्षणम् । सतैमिरमिति तु तिमिरशब्दोऽयमज्ञानपर्यायः । तिमिरनं च मन्दानामिति यथा । तिमिरे भवं मिरं विसंवादकमित्यर्थः ॥ १३२४ ॥ तनेत्यादिना प्रतिविधत्ते।
तन्नाध्यवसिताकारप्रतिरूपा न विद्यते । तत्राप्यर्थक्रियावातिरन्यथाऽतिप्रसज्यते ॥१३२५ ॥ केशादिप्रतिभासे च ज्ञाने संवादिभावतः। आलोकादेरतस्तख दुर्निवारा प्रमाणता ॥ १३२६ ॥