________________
पक्षिकासमेतः। तद्विकारविकारिखं पारम्पर्योद्भवेष्वपि । कार्येषु दृश्यते लोके व्यक्तं वेगसरादिषु ॥ १३१६ ॥ मानस्यो भ्रान्तयः सर्वा निवर्तन्ते विचारतः। इत्यस्मिन्व्यभिचारित्वं भावसामान्यबुद्धिभिः ॥१३१७॥ वस्तुखलक्षणे नैताः प्रवर्तन्ते खभावतः । एवं तद्विनिवृत्तिश्चेत्तुल्यं चन्द्रद्वयादिषु ॥ १३१८ ॥ न सत्ताविनिवृत्तिश्चेत्सम सामान्यबुद्धिषु । नचेश्वरादिभ्रान्तीनां तन्मताभिनिवेशिनाम् ॥ १३१९ ॥ युक्तिकोटिश्रवेऽप्यस्ति निवृत्तिः प्रत्युत खयम् ।
नैता युक्तय इत्येवं ते वदन्ति जडाः पुनः ॥ १३२०॥ अत्र यदि साक्षात्तद्भावभावित्वं हेतुस्तदाऽन्यतरासिद्धता हेतोः, नहि परस्य साक्षादिन्द्रियादुत्पत्तिर्धान्तेः सिद्धा, तस्या एव साध्यत्वात् । अथ सामान्येन तद्भावभावित्वं हेतुस्तदाऽनैकान्तिकता, स्मृतिबुद्धौ विपक्षभूतायामपि तद्भावमावित्वस्य समंधया(पारम्पर्या ?)द्विद्यमानत्वात् । यच्च तद्विकारविकारित्वं तदपि साक्षादसिद्धम् , पारम्पर्येणाप्युपादीयमानमनैकान्तिकमेव । यतोऽश्वायां गर्दभेन जातस्य वेगसरस्य कललाद्यवस्थाव्यवधानेऽपि गर्दभरूपानुकारेण तद्विकारित्वस्य पश्चादर्शनादतो नास्मात्साक्षादुत्पत्तिः सिध्यति । मानसी च भ्रान्तिर्विचारान्निवर्तत इत्यत्राप्यनैकान्तिकत्वं भावसामान्यबुद्धिमिः । नहि भवतां युक्त्या सामान्याभावमवगच्छतामपि भावेषु घटादिषु भाव इति वा सामान्यमिति वा सामान्याकारो विकल्पो निवर्त्तते । अथ मन्यसे-निवर्तन्त एव युक्त्या विचारयतः सामान्यबुद्धयः स्वलक्षणे नैताः प्रवर्त्तन्त इत्यनेनाकारेणेति । तदैतदप्यनुत्तरम् । चन्द्रद्वयादिबुद्धयोऽपि युक्त्या विचारयतः स्खलक्षणे नैताः प्रवर्तन्त इत्यनेनाकारेण निवर्तन्त एव । नच तावता मानस्यो भवन्ति । सत्ता तासां न निवर्त्तत इति चेत्तत्तुल्यं सामान्यबुद्विमिः। नहि तासामपि स्वभावो निवर्तते ॥ १३१५ ॥ १३१६ ॥ १३१७ ॥ ॥ १३१८ ॥ १३१९ ॥ १३२० ॥ तद्भावभावितेत्यादिना प्रतिविधत्ते ।
तावमाविता साक्षान्न सिडाऽभ्रान्तचेतसा। व्यवघानं न सिद्धं हि न हि तद्वेचतेऽन्तरा ॥१३२१ ॥