________________
एवं कल्पनापोढतं प्रत्यक्षम प्रसाध्याप्रान्तमहणे प्रयोजनमाह केशोण्डूकेत्यादि।
केशोण्डूकादिविज्ञाननिवृत्त्यर्थमिदं कृतम् ।
अनान्तग्रहणं तद्धि प्रान्तखानेष्यते प्रमा ॥ १३१२॥ . अभ्रान्तमत्राविसंवादित्वेन द्रष्टव्यम्, नतु यथाऽवस्थितालम्बनाकारतया । अ. न्यथा हि योगाचारमतेनालम्बनासिद्धरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याबापिता स्यात् । अविसंवादित्वं चामिमतार्थक्रियासमर्थार्थप्रापणशक्तिकत्वम्, नतु प्राप. णमेव प्रतिबन्धादिसम्भवात् । यद्येवमभ्रान्तग्रहणमेवास्तु, कि कल्पनापोढमहणेनेति चेत् । न । अनुमानविकल्पस्यापि प्रत्यक्षत्वप्रसङ्गात् ॥ १३१२ ॥ मानसं तदपीत्येक इति ।
मानसं तदपीत्येके नैतदिन्द्रियभावतः। भावात्तद्विकृतावस्य विकृतेश्चोपलम्भतः॥१३१३ ॥ सादिम्रान्तिववेदमनष्टेऽप्यक्षविप्लवे । .
निवर्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनात् ॥१३१४॥ न तदर्थमभ्रान्तग्रहणं युक्तं कर्तुमिति तेषामभिप्रायः । ननु च भवतु नाम मानसम्, तथाप्यभ्रान्तग्रहणं कर्त्तव्यमेव, नबनेनेन्द्रियज्ञानस्यैव प्रत्यक्षलक्षणं कर्तुमारब्धम् , किं तर्हि ?, मानसस्यापि योगिज्ञानादेः, तत्र च स्वमान्तिकस्यापि निर्विकल्पकत्वमस्ति स्पष्टप्रतिभासित्वात्, नत्वभ्रान्तत्वमिति तनिवृत्त्यर्थमभ्रान्तमहणं युक्तमेव । सत्यमेतत् । किंत्विन्द्रियभ्रान्तिरपि सम्भवत्यतोऽयमयुक्त एषां पक्ष इतीन्द्रियजत्वप्रतिपादनायाह-नैतदित्यादि । इन्द्रियभावे सति भावादिन्द्रियविकारे चोपघातलक्षणे. विकारस्योपहतिलक्षणस्योपलम्भात्तदन्येन्द्रियबुद्धिवदिन्द्रियजेयं के शोपकादिबुद्धिः। किंच-यदि मनोभ्रान्तिः स्यात्ततो मनोभ्रान्तेरेव कारणानिव
तानिवृत्तेऽप्यक्षविप्लवे । सर्पादिभ्रान्तिवदिति दृष्टान्तः । स्पष्टप्रतिभासा च न प्रामोतीत्ययमपरः प्रसङ्गः । नहि विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता, सामान्योलेखेनैव तस्य प्रवृत्तेः ।। १३१३ ॥ १३१४ ।।
तनावेत्यादिना परकीयं दूषणमाशते । ... तावमाविता साक्षादसिद्धा व्यभिचारिणी।
...... पारम्पर्येण सा तस्यां स्मृतिबुरी समन्वयात् ॥ १३१५ ॥