________________
पषिकासमेतः। . अत्र भाविविक्तादयो विकल्पोत्पादद्वारेणामि व्यवहाराङ्गत्वं विषटयन्तो बला माणयन्ति तदर्शयति-नाविकल्पमित्यादि ।
नाविकल्पं विकल्पे चेच्छक्तं(च शक्तं?) विषयभेदतः। + अकल्पत्वाच रूपादिज्ञानचक्षुरादिवत् ॥ १३०७ ॥
नेन्द्रियविज्ञानं सविकल्पकमनोविज्ञानकारणं मिन्नविषयत्वाद्रूपस्पर्शादिज्ञानवत् , निर्विकल्पकत्वाच, चक्षुरादिवदिति । विषयभेदत इत्यत्र हेतो दृष्टान्तो रूपाविशा. नवदिति, अकल्पत्वादित्यत्र तु चक्षुरादिवदिति ॥ १३०७ ॥ तदत्रेत्यादिना दूषणमाह
तन्त्र न विरोधोऽस्ति विकल्पेन सहानयोः।
नचापि विषयो भिन्नस्तदर्थाध्यवसायतः ॥१३०८॥ उभयोरपि हेत्वोरनैकान्तिकता, साध्यविपर्ययेण सह हेत्वोर्विरोधानुपदर्शनात् । अनयोरिति । हेत्वोः । नचापि विषयो भिन्न इत्यनेन सत्यपि सविषयत्वे विकल्पस्य विषयभेदत इत्यस्य हेतोरसिद्धतामाह ॥ १३०८॥
परमार्थतस्तु निर्विषयो विकल्पस्तदापि सुतरामसिद्धतेति दर्शयन्नाह-वस्तुतस्त्वित्यादि।
वस्तुतस्तु निरालम्बो विकल्पः संप्रवर्त्तते।
तस्यास्ति विषयो नैव यो विभिद्येत कश्चन ॥१३०९ ॥ रूपशब्दादीत्यादिना रूपादिज्ञानवदित्यस्य दृष्टान्तस्य साध्यविकलतामाह ।
रूपशब्दादिबुद्धीनामस्त्येवान्योन्यहेतुता।
ततोऽप्रसिद्धसाध्योऽयं दृष्टान्तः समुदीरितः ॥ १३१० ॥ रूपशब्दाविज्ञानानां परस्परसमनन्तरप्रत्ययभावेन कारणत्वस्य विद्यमानत्वात् ॥ १३१० ॥
पुनरपि विषयभेदत इत्यस्य हेतोर्विपक्षे सद्भावोपदर्शनेनानैकान्तिकतामाहअग्निधूमादीत्यादि ।
अग्निधूमादिबुद्धीनां कार्यकारणभावतः ।
व्यभिचारोऽपि विस्पष्टमेतस्मिन्नुपलभ्यते ॥१३११॥ एतस्मिमिति । विषयभेदत इत्यत्र हेतौ । यथान्यादिलिङ्गिबुढे—मादिलिङ्गबुद्विर्विषयभेदेऽपि कारणं तथात्रापि भविष्यतीति हेतोरनैकान्तिकत्वम् ॥ १३११॥