________________
३३० दुःखोति यदि निश्चिनोति तदा तयोः प्राप्तिपरिहाराय प्रवर्तते । किंध-अनुमानानुमेवव्यवहाराभावश्च प्राप्नोति । तथाहि अनुमानकालेऽवश्यं धर्मी धर्मो वा प्रमाणान्तरेण निश्चितो गृहीतव्यः । स च न प्रत्यक्षेणानिश्चयात्मकेन निश्चितो गृहीतुं शक्यते । नाप्यनुमानेन, अनवस्थादोषात् । नचान्यत्प्रमाणान्तरमस्तीति सर्वक, ज्यवहारोच्छेदः प्राप्नोति । तस्मादनुमानादिव्यवहारप्रवृत्तितो लिङ्गादनुमानवाधितेयमविकल्पकप्रतिक्षेति यश्चोदयेत्तं प्रत्याह-अविकल्पमपीत्यादि ।
अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत्।
निःशेषव्यवहाराङ्गं तद्वारेण भवत्यतः ॥ १३०६ ॥ तारेणेति । विकल्पद्वारेणाविकल्पकमपि निश्चयहेतुत्वेन सकलव्यवहाराचं भवति । तथाहि-प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तमनलादिकमर्थ वदाकारनिर्भासोत्पत्तितः परिच्छिन्ददुत्पद्यते । तच्च नियतरूपव्यवस्थितवस्तुप्राहित्वाद्विजातीयव्यावृत्तवस्त्वाकारानुगतत्वाच तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति-अनलोऽयं नासौ कुसुमस्तबकादिः, इति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धादसंवादित्वेऽपि न प्रामाण्यमिष्टम् । दृश्यविकल्पयोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात् । अतएव विकल्पद्वयहेतुत्वात्तृतीयप्रकाराभावसूचनायापि निमित्ततां प्रतिपद्यते । तथाहि-यद्यत्र कचित्प्रवृत्तं त(तत्प्रतिभासित्वाचत्परिच्छिनत्ति, तदन्यस्य तत्रानुपलम्भात्ततस्तद्व्यवच्छिनत्ति । सर्वभावानां च दृश्यतदन्यत्वेन द्वैराश्ये व्यवस्थापनात्प्रकारान्तराभावं च सूचयति । य. येवं-प्रत्यक्षेणैव शब्दादौ धर्मिणि गृहीतत्वादनित्यत्वादेः तत्रानुमानविकल्पः प्रवर्चमानः प्रमाणं न प्राप्नोति । नैष दोषः । प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं जनयति स एवांशो व्यवहारयोग्यो गृहीत इत्यभिधीयते, यत्र तु भ्रान्तिनिमित्तवशात्समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहारायोग्यत्वाद्गृहीतोऽप्यगृहीतप्रख्य इति वत्रानुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्त्तमानस्य प्रामाण्यं भवति, न पुनः प्रत्यक्षानन्तरभाविविकल्पस्य, तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात् । किं पुनः का; रणं सर्वतो मिन्ने वस्तुरूपे अनुभवोत्पत्तावपि तथैव न स्मार्तो निश्चयो भवति । उच्यते । कारणान्तरापेक्षत्वात् , न गनुभूत इत्येव निश्चयो भवति । तस्याभ्यासार्थित्वपाटवादिकारणान्तरापेक्षत्वात् । यथा जनकाध्यापकाविशेषेऽपि पितरमायान्तं या पिता मे आगच्छति नोपाध्याय इति निश्चिनोति ॥ १३०६ ॥