________________
पषिकासमेतः। गौशुलवलतीत्यादी प्रत्यक्षानन्तरं न हि। .
समारोपोऽत्र विज्ञाने वेद्यते यनिषिध्यते ॥१३०३ ॥ . प्रवृत्तसमारोपव्यवच्छेदेनानुमानस्य प्रामाण्यं, न तु पुनः समारोपविषयव्यव. छेदमात्रेण, स्मृतेरपि प्रामाण्यप्रसङ्गात् , नच तत्प्रत्यक्षसमनन्तरभाविनो गौः शुक्लअलतीत्यादेविकल्पस प्रवृत्तसमारोपनिवारणमस्ति, अन्तरा समारोपस्यानुत्पन्नत्वात् । कथमनुत्पन्नत्वमिति चेदाह-गौरित्यादि । नहि विकल्पोऽसंविदित उत्पद्यत इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिद्धमनुत्पन्नत्वं समारोपस्य ॥ १३०१॥१३०२॥ ॥ १३०३॥
एवं तावदेतत्सर्व जात्यादिकमभ्युगम्योक्तम् , इदानीं जात्यादयः परमार्थतो न सन्येव कुतस्तद्विषयतया प्रत्यक्षस्य सविकल्पता भविष्यतीति दर्शयन्नाह-तत्त्वेत्यादि।
तत्त्वान्यत्वोभयात्मानः सन्ति जात्यादयो न च । यद्विकल्पकविज्ञानं प्रत्यक्षत्वं प्रयास्यति ॥ १३०४॥ अन्वयासत्वतो भेदा देनाप्रतिभासनात् ।
अन्योन्यपरिहारेण स्थितेश्चान्यत्वतत्त्वयोः ॥ १३०५॥ व्यक्तिभ्यो हि जात्यादयः कदाचिदव्यतिरिक्ता व्यतिरिका वा व्यतिरिकाव्यतिरिकत्वेनोभयात्मानो वा । न तावदाद्यः पक्ष:-अन्वयासत्वत: अन्वयामावात् । अनेकवस्त्वनुगतं हि रूपं सामान्यमुच्यते, न चैवं व्यक्तयः परस्परमन्वानिशन्ति, येन ता एव सामान्यं भवेयुः । अन्वावेशे वा विश्वमेकमेव रूपं जातमिति सामान्यस्यैवाभावप्रसङ्गः, अनेकाधारत्वात्तस्य । नापि द्वितीयः पक्षः-भेदानेदेनाप्रतिमासनात्-भेदादिति । व्यक्तः । नचाप्रतिभासमानं प्रत्यक्षीभवति । यथो. कम्-ध्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानाद्व्यतिरिक्तं च कथमर्थान्तरं ब्रजेत् ॥ इति । नापि तृतीयः पक्षः-अन्योन्यपरिहारेण स्थितेरन्यत्वतत्वयोः पक्षयोः। यौहि परस्परपरिहारेण स्थितलक्षणौ तयोर्य एकः प्रतिषेधः सोऽपरविधिनान्तरीयकः । परस्परपरिहारेण वाऽन्यत्वतत्त्वे व्यवस्थिते, अन्यतरस्वभावव्यवच्छेदनान्यतरस्म परिच्छेदात् । तस्मानास्ति तृतीयराशिसम्बन्धः ॥ १३०४॥ ॥ १३०५॥ ननु च ययविकल्पं प्रत्यक्षं कथं तेन व्यवहारः, तथाहि-इदं सुखसाधनमिदं