________________
एवं साक्खलक्षणविषयत्व इतरेषां ज्ञानानामविकल्पता प्राप्नोतीति सापितम् । इदानी भवतु नाम सविकल्पत्वं तथापि गृहीतवाहित्वान तेषां प्रामाण्यं युक्तमिति प्रविसरलाह-एकान्तेनेत्यादि ।
एकान्तेनान्यताभावाजात्यायायेन चेद्गतम्। ।
विज्ञातार्याधिगन्तृत्वात्माज्ञानसमं परम् ॥ १२९८॥ तथाहि जात्यादेव्यतितो नैवान्यत्वमेकान्तेनेष्टम् । यथोक्तम्-"स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि न" इति । ततश्चाद्येनैवालोचनाज्ञानेन जात्यादि हीपमिति स्मार्चज्ञानवदधिगतार्थाधिगन्तृत्वात्परं जात्यादिधर्मनिश्चयज्ञानमप्रमाणमेव युसमिति । प्रयोगः-यगृहीतग्राहि सानं न तत्प्रमाणं, यथा स्मृतिः, गृहीतपाही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धिः ॥ १२९८ ॥
तदत्र यदि समारोपविषयव्यवच्छेदेन गृहीतमिति हेत्वर्थस्तदा हेतोरसिद्धता, अथ यथाकथंचिद्गृहीतत्वादिति हेत्वर्थस्तदाऽनुमानेनानेकान्त इति दर्शयत्राहसंमुग्धेत्यादि ।
संमुग्धानेकसामान्यरूपेणाधिगमे सति । नैव निश्चितं वस्तु निश्चयस्तूत्तरोत्तरः ॥ १२९९ ॥ . समारोपव्यवच्छेदविषयत्वाद्यथाऽनुमा।
समारोपव्यवच्छेदविषयो निश्चयस्तथा ॥ १३००॥ तवाहि-प्रथमं संमुग्धरूपेणालोचनाज्ञानेनाधिगतं, नहि निश्चितरूपेण, उत्तरोवस्तु निधया प्रमाणं, समारोपव्यवच्छेदविषयत्वादनुमानवत् । यथा प्रत्यक्षेण गृहीते शब्दादो धर्मिणि कृतकत्वादिनाऽनित्यत्वनिश्चयो भवन्प्रमाणं भवति, तथा समारोपव्यवच्छेद विषयो निश्चयो भविष्यति । तथाहि भवतामत्राविवादा-समारोपव्यवच्छेदविषयो निश्चय इति । यथोक्तम् निश्चयारोपमनसोवाव्यवाचकभावतः । समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते” ॥ इति ॥ १२९९ ॥ १३००॥ नेत्याविना प्रतिविधते।
न समारोपविच्छेदविषयत्वेन मानता। अनुमाया प्रमाणवप्रसङ्गेन स्मृतेरपि ॥ १३०१॥ प्रत्यक्षानन्तरोद्भूतसमारोपणवारणात् । इष्टं तु लैङ्गिक ज्ञान प्रमाणं न तदस्ति ते ॥१३०६॥