________________
पविकासमेतः। स्पकं, यथाऽऽलोचनाज्ञानम्, स्खलक्षणप्राहि चोचरप्रत्यक्षत्वेनामिमतं ज्ञानमिति स्खमावहेतुः । प्रसङ्गसाधनं चेदं, नचानकान्तिकता हेतोः, यतोऽवाच्यमेवेदं खलक्षणमिति प्रागन्यापोहे प्रसाधितम् । नापि विरुद्धता सपक्षे भावात् ॥ १२९३ ॥ DII १२९४ ॥ स्यादेवत्-जातिमात्रविषयत्वादसिद्धो हेतुरित्याह-जातिमात्रेत्यादि ।
जातिमात्रग्रहे तु स्यादेकान्तेन विभिन्नता ।
विशेषणस्य नैतच परैरिष्टं यथोदितम् ॥ १२९५ ॥ एकान्तेन विभिन्नता विशेषणस्येति । विशेष्यादिति शेषः । नैतच्च परैरिष्टमिति । एकान्तेन विशेषणविशेष्ययोर्विमिन्नत्वम् । कथं नेष्टमित्याह-यथोदितमिति । तेनैवेति शेषः ॥ १२९५ ॥ किं तदित्याह-यदीत्यादि।
यदि ोकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् ।
खानुरूपां तदा बुद्धिं विशेष्ये जनयेत्कथम् ॥ १२९६ ॥ पर्यायेण भेदस्याप्यभ्युपगतत्वादेकान्तत इत्याह । तथाहि-मिन्नामिनस्वभावा जात्यादयस्तस्पेष्टा नैकान्ततो मिन्ना नाप्यमिन्नाः । तथाचाह-"बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते । एकानेकत्वमिष्ठं वा सत्तारूपादिभेदत" इति । पुनश्चोक्तम्"स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि न" इति । परत्वमिति । अन्यत्वम् । स्वानुरूपामिति । विशेषणस्वरूपोपरक्ताम् । यतो विशेषणोपरक्तं विशेष्यं प्राहयद्विशेषणमुच्यते, अन्यथा विशेषण(त्व)स्यानुपपन्नत्वादिति भावः। यथोक्तम्-"स्वबुखा येन रज्येत विशेष्यं तद्विशेषणम्” इति ॥ १२९६ ॥ . . .
अथापि स्यात्-खसामान्यलक्षणविषयत्वेनोभयविषयत्वात्केवलखलक्षणमात्रविपयत्वमसिद्धमेवोत्तरेषां ज्ञानानामित्याह-स्वसामान्यात्मनोरित्यादि ।
खसामान्यात्मनोयुक्तं ज्ञानं चैकं न वेदकम् । .. .
सविकल्पान्यथाभावे प्राक्तनापरविन्न हि ॥ १२९७ ॥ खलक्षणसामान्यलक्षणयोकं ज्ञानं वेदकं युक्तम् । तथाहि-तदेकं ज्ञानं सविकल्पकं वा स्यादविकल्पकं वा, तत्र सविकल्पकभावे-सविकल्पकत्वे सति, प्राकनस्य-पूर्वोकस्य स्खलक्षणस्य, वित्-वेदनं, न प्राप्नोति । अन्यथाभाव इति । निर्विकल्पकपक्षे । अपरस्येति । सामान्यात्मनः, वित्-वित्तिर्न स्मात् ॥ १२९७ ॥