________________
तत्त्वसङ्ग्रहः ।
न हि
प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गम्यन्ते नेन्द्रियैः पुनः ॥ १२९० ॥ उष्णादिति । प्रभास्वरात् । प्रविष्टमात्राणामिति योज्यम् । गम्यते नेन्द्रियैरिति । अपि तु गम्यन्त एवेति काका दर्शयति ॥ १२९० ॥
१८६
एवं दृष्टान्तं प्रसाध्य दाष्टन्तिके उपसंहरन्नाह — यथेत्यादि । यथा त्वाभासमात्रेण पूर्व ज्ञात्वा खरूपतः । पश्चात्तत्र विबुद्ध्यन्ते तथा जात्यादिधर्मतः ॥ १२९१ ॥
यथा गर्भगृहे आभासमात्रं गृहीत्वा पश्चाद्विशेषतो नीलमित्यादिना जानाति, एवं स्वरूपतः पूर्व ज्ञात्वा पश्चाज्जात्यादिधर्मतः प्रत्यक्षवान्भविष्यतीत्यदोषः।। १२९१॥ एवं तर्हि यद्यालोचनाज्ञानादूर्ध्वं पुनः पुनर्यावानधिगमस्तस्य प्रामाण्यं तदाssलोचनाज्ञानेन यदि कश्चिदालोच्य पश्चादक्षिणी निमील्य जात्यादिधर्मतो विकल्प - यति, तदाऽस्यापूर्वाधिगमोस्तीति तस्यापि प्रत्यक्षता स्यादित्याह - यदि त्वित्यादि । यदि त्वालोच्य संमील्य नेत्रे कचिद्विकल्पयेत् ।
न स्यात्प्रत्यक्षता तस्य सम्बन्धाननुसारतः ॥ १२९२ ॥ आलोच्येति । आलोचनाज्ञाने ज्ञात्वा । नेत्रे इति । संमील्येति सम्बन्धः । सम्बन्धाननुसारत इति । अक्षसम्बन्धद्वारेणानुत्पत्तेः । यथोक्तं तेनैव कुमारिलेन - " एवं समानेऽपि विकल्पमात्रे यत्राक्षसम्बन्धफलानुसारः । प्रत्यक्षता तस्य, तथा च लोके विनाप्यदो लक्षणतः प्रसिद्ध” मिति ।। १२९२ ॥
1
तदित्यादिना प्रतिविधत्ते ।
तद्युक्तं यदि ज्ञानं तत्प्रवृत्तं खलक्षणे ।
अनाविष्टाभिलापं तज्जात्यादिग्रहणेऽपि हि ॥ १२९३ ॥ तथा (चा) वाच्यमेवेदं साघितं प्राक खलक्षणम् । तस्मिन्वृत्तं च विज्ञानं नियतं निर्विकल्पकम् ॥ १२९४ ॥ जात्यादिग्रहणेऽपीत्यपिशब्दोऽभ्युपगमे । एकदा तावब्यात्यादीनां निरस्तत्वान सन्त्येव व इति कुतस्तद्ग्रहणे प्रामाण्यम्, सन्तु नाम, तथापि तद्ग्रहणे आलोचनाज्ञानवदुत्तरकालभाविनां ज्ञानानां स्वलक्षणविषयत्वादविकल्पतैव, जात्यादीनां स्वलक्षणादव्यतिरेकस्याभ्युपगतत्वादिति भावः । प्रयोगः - यत्स्वलक्षणत्राहि तदुबिक