________________
पंचासमेतः ।
अस्ति झालोचनाज्ञानमाचं चेनिर्विकल्पम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १२८६ ॥ म विशेषो न सामान्यं तदानीमनुभूयते । तयोराधारभूता तु व्यक्तिरेवावसीयते ॥ १२८७ ॥ ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्याऽवसीयते सापि प्रत्यक्षत्वेन संमता ॥ १२८८ ॥ तथाहि सर्व प्रत्यक्षं पक्षीकृतं, तत्र च सर्वत्र प्रत्यक्षाख्ये धर्मिणि सविकल्पकव्यवस्थितौ नास्ति च विशेषणविशिष्टार्थग्रहणं निमित्तमित्यस्य हेतोरसिद्धिः, मालोचनाज्ञानव्यतिरेकेणान्यत्र प्रत्यक्षे सामान्यादिविशेषणविशिष्टार्थग्रहणस्य विद्यमानत्वात् । अथालोचनाज्ञानमेव पक्षीकृत्य हेतुरभिधीयते तदा सिद्धसाध्यतेति मन्यते परः । बालमूकादिविज्ञानसदृशमिति । बालविज्ञानसदृशं मूकादिविज्ञानसहशम् | आदिशब्देन संमूर्छितपरिग्रहः । अभिलापविशेषरहितत्वमात्रेण साम्यम् । शुद्धत्वं पुनर्वस्तुनः सामान्यद्वय विविक्तत्वात् । तदेव द्वितीयेन श्लोकेन स्पष्टयतिन विशेष इत्यादि । विशेष इति । अवान्तरसामान्यं गोत्वादि । सामान्यमिति । महासामान्यं वस्तुत्वादि । तयोराधारभूतेति । अनेन शुद्धं वस्तु दर्शितम् । ततः परमित्यादिना तामेव पक्षैकदेशासिद्धतां हेतोरभिव्यनक्ति - ततः परमिति । शुद्धवस्तुग्रहणोत्तरकालं यया बुद्ध्या वस्तु व्यवसीयते जात्यादिभिर्विशेषणैः सापि प्रत्यक्षत्वेन संमतेति योज्यम् । जात्यादिभिरित्यनेन विशेषणविशिष्टार्थग्रहणं दर्शयति । अनेन चानधिगतार्थाधिगन्तृत्वं हेतोश्वासिद्धतोक्ता भवति ।। १२८६ ॥ १२८७ ॥ ॥ १२८८ ॥
>
१८५
पुनः पुनर्विकल्पेऽपि यावानधिगमो भवेत् । तत्सम्बन्धानुसारेण सर्व प्रत्यक्षमिष्यते ॥ १२८९ ॥
1
I
पुनः पुनरिति । तृतीयादौ क्षणे । यावानिति । अनधिगतार्थाधिगन्तेति शेषः । तत्सम्बन्धानुसारेणेति । तस्याक्षस्य सम्बन्धानुसारेण ॥ १२८९ ॥
४९
स्यादेतत्-यदि प्रथमतोऽक्षव्यापारकाले सकलजात्यादिधर्मसमन्वितं वस्तु न भासते, तसर्पुत्तरकालमपि न भासेताविशेषादित्याह न हि प्रविष्टमात्राप्यामि
त्यादि ।