________________
२४४
तत्त्वसङ्गह। यन्न किंचित्सोऽभावः कल्प्यते, तब तादृशं सामान्यतो नैव विशिष्टं नापि समं, भावत्वप्रसङ्गात् । तथाहि-यदि तच्छून्यं सामान्यतो विशिष्टं स्यात्तदपि वस्त्वेव स्यात् । नावस्तुनो विशेषाख्यखभावः सम्भवति, न च विशेषाख्यं स्वभावमन्तरेण विशिष्टं शक्यं वक्तुम् । नापि समं वस्तुत्वप्रसङ्गात् । नह्यवस्तुनः केनचित्समान रूपं भवति, नच समानरूपमन्तरेण समं युक्तमतिप्रसङ्गात् । तस्मात्सामान्यस्य शून्यमवधिं कृत्वा न समत्वं विशिष्टत्वं वा युक्तम् । तथाहि-यो यमवधिं कृत्वा समो विशिष्टो वा भवति तेन सोऽप्यवधिः समो विषमश्च दृश्यते। यदि हि सोऽवधिस्तेन समो विषमो वा न दृश्येत, इतरोप्यवधिमान्समो विषमो वा न दृश्येत ॥ १२८२ ॥ १२८३ ॥
किंच नाभावो नाम कश्चिद्भावव्यतिरिक्तोऽस्ति भाव एव तु भावान्तरं न भवती. त्यभाव आल्यायते, तत्कुतोऽस्य वैशिध्यमित्येतत्सर्व सुमतिनोक्तमागूर्याह-अतदा. त्मकमेवेदमित्यादि ।
अतदात्मकमेवेदं वैशिष्ट्यं वस्तुनोऽपि हिं। नासद्रूपं च सामान्यं तद्विशिष्टं न ते कथम् ॥ १२८४ ॥ तस्मात्खलक्षणे ज्ञानं यत्किंचित्संप्रवर्तते।
वाक्पथातीतविषयं सर्व तनिर्विकल्पकम् ॥ १२८५ ॥ वस्तुनोऽपि हि सकाशाद्यवस्तुनो विशिष्टत्वं तत्खलु नान्यत् किंचित् । किं तर्हि तत्त्वनिषेधः, अतदात्मत्वमेव, लक्षणभेद इति यावत् । तञ्चासतोऽपि शशविषाणादेः सकाशात्सामान्यस्य तुल्यमेव । तथाहि-असच्छशविषाणादि सर्वार्थक्रियाविरहलक्षणं, सामान्यं तु न तथेष्टमिति विस्पष्टमस्य ततो वैशिष्ट्यम् । ततश्चासतोऽपि सकाशाद्वैशिष्ट्यं स्यानच वस्तुत्वप्रसङ्गोऽसत इति यत्किंचिदेतत् । यदुक्तं-नाभावो सामान्य एवेत्यादि, तत्र तेन स्वभाषितस्यैवार्थो न विवेचितः। तथाहि भाव एव तु भावान्तरं न भवतीत्युक्ते भावान्तरात्तस्य विशेष उक्तो भवति, ततो व्यावृत्तिस-. वीर्तनात् । तदेतद्ध्यान्ध्यविजृम्भितमित्यलं प्रसङ्गेन। तस्मादित्यादिना प्रमाणफलोपसंहारः ॥ १२८४ ॥ १२८५ ॥
अस्ति ह्यालोचनाज्ञानमित्यादिना कौमारिलमतोपदर्शनेन यस्य यदूपन्यवस्थितौ निमिचं नास्तीत्यादी प्रयोगे हेतोः पक्षैकदेशासिद्धत्वमाशङ्कते।