________________
पञ्जिकासमेतः ।
३८३
I
सामान्यस्य विशेषतो विशिष्टत्वमित्युपलक्षणम् । तथा विशेषस्यापि सामान्यतो विशिष्टत्वमेव । द्वयोरपि परस्परस्वभावविवेकेन प्रविभक्तत्वात् । असङ्कीर्णा स्थितिरिति । अमिश्रीभूता । यथोक्तं तेनैव सुमतिना " सत्तादिसामान्यस्वभावानुश्रद्ध एव विशेषः साक्षात्क्रियते नान्यथा, ततो विशष्टविषयत्वमेव विशेष्यस्य युक्तं रूपम्, सामान्यं पुनरशेषविशेषनिरपेक्षं साक्षात्कर्तुं शक्यत इत्यविरुद्धमस्याविकल्पविषयत्व”मिति । इयमसङ्कीर्णा स्थितिर्न स्यात् । न प्रविभक्तो नाप्रविभक्त इष्यत इति चेदाह – अन्योन्येत्यादि । अन्योन्यापरिहारस्थितिलक्षणानामेकस्वभावनिषेधस्यापरविधिनान्तरीयकत्वान्न राश्यन्तरमस्ति ।। १२७८ ।। १२७९ ॥
-
अपि च निर्विशेषं गृहीता भेदा इति परस्परव्याहतमिति दर्शयन्नाह - विशेषात्मातिरेकेणेत्यादि ।
'
विशेषात्मातिरेकेण नापरं भेदलक्षणम् ।
तद्रूपास्पर्शने तेषु ग्रहणं कथमुच्यते ॥ १२८० ॥ तद्रूपस्पर्शने चापि भेदान्तरविभेदिनः ।
गृहीता इति विज्ञानं प्राप्तमेषु विकल्पकम् ॥ १२८१ ॥
भेदेभ्यो हि नान्यो विशेषः, तस्य च विशेषस्य सामान्यग्राहिणा ज्ञानेनासंस्पर्शे कथं भेदास्तेन गृहीता भवेयुः, अगृहीतस्वभावाव्यतिरेकान्तेप्यगृहीता एवेति भावः । अथ गृहीता इति मतम्, तदा तद्रूपसंस्पर्शने - भेदरूप संस्पर्शने ग्रहणे, गृहीताव्यतिरेकाद्गृहीतस्वभाववद्विशेषोऽपि गृहीत एवेति एषु भेदेषु यत्सामान्यविषयत्वेनाभिमतं ज्ञानं तद्विकल्पकं प्राप्तम् ।। १२८० ।। १२८१ ।।
"
किं च — माभून्नाम सामान्यस्य विशेषाव्यतिरेकात्ततो विशिष्टत्वं, तथापि शशविषाणादेर्निरूपाख्यात्तस्य विशिष्टत्वमस्त्येवेति विकल्पज्ञानग्राह्यं स्यात्, नच भवति, तस्मादनैकान्तिकत्वमेवेति दर्शयन्नाह – निरुपाख्याच्चेत्यादि ।
निरुपाख्याच सामान्यं विशेषं संप्रतीयते ।
अतो विकल्पक ज्ञानग्राह्यं तदपि ते भवेत् ॥ १२८२ ॥ नासतस्तद्विशिष्टं चेत्किमिदानीं तदात्मकम् ।
नो चेत्तथापि वैशिष्ट्यं तस्मादस्य न किं मतम् ॥ १२८३ ॥ स्मादेतत् — सामान्यस्याभावतो न विशेषः संभवति, नापि सादृश्यम् । तथाहि