________________
तत्त्वसङ्ग्रहः।
कथमित्याह-विशेषाद्धीत्यादि ।
विशेषाद्धि विशिष्टं तत्सामान्यमवगम्यते। तद्राहकमतः प्राप्तं विज्ञानं सविकल्पकम् ॥ १२७५ ॥
यद्ध्यस्माद्विशेषाद्विशिष्टं-व्यावृत्तं, तत्सामान्यं प्रतीयते । अन्यथा साग मान्यमेव न स्यात्ततो यदि न व्यावर्तेत । ततश्चास्यापि सामान्यस्य विशेषाव्यातस्य ग्राहक विज्ञानं सविकल्पकं प्राप्नोति, विशिष्टविषयत्वात् । न च भवति त्वन्मतेन । तस्मात्स्वतोऽनैकान्त इति ॥ १२७५ ॥ __ अत्र किल तेनैव सुमतिना स्वयमाशङ्कय सामान्येन हेतोरनैकान्तिकत्वं परिहृतं तदेवादर्शयति-निर्विशेषमित्यादि ।
निर्विशेषं गृहीतश्चेद्भेदः सामान्यमुच्यते ।
ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते ॥ १२७६ ॥ नहि सामान्यं किंचिदस्ति विशेषेभ्यो व्यतिरिक्तवरूपं, यत्स्वरूपेण विशिष्टं गृह्यमाणं सविकल्पकविज्ञानगोचरः स्यात् , किन्तु निर्विशेषं गृहीता भेदा एव सामान्यमित्युच्यन्ते । प्रतिनियतस्वरूपनिरपेक्षाः प्रतीयमानाः सामान्यशब्दामिधेया इति यावत् । ततश्च कुतस्तस्माद्विशेषात्सामान्यस्य विशिष्टत्वम् , येन तद्राहकस्य सविकल्पना भवेत् ॥ १२७६ ॥ कथं तर्हि सामान्यविशेषयोरसङ्कीर्णा व्यवस्थेत्याह-वैषम्येत्यादि ।
वैषम्यसमभावेन ज्ञायमाना इमे किल ।
प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥ १२७७ ॥ एत एव हि भेदाः समविषमतया संप्रज्ञायमाना यथाक्रमं सामान्यविशेषामिघानामिधेयतामनुभूय सामान्यविशेषव्यवहारयोर्विषयभेदं प्रकल्पयन्ति ॥ १२७७ ॥ वैषम्यसमभावोऽयमित्यादिना प्रतिविधत्ते ।
वैषम्यसमभावोऽयं प्रविभक्तो यदीष्यते। सामान्यस्य विशिष्टत्वं तदवस्थं विशेषतः ॥ १२७८ ॥ अथाविभक्त एवायमसङ्कीर्णा स्थितिः कथम् ।
अन्योन्यापरिहारेण स्थितेर्गत्यन्तरं नच ॥ १२७९ ॥ प्रविभक इति । अमिश्रः । अन्यदेव सामान्यमन्य एवं विशेष इति यावत् ।