________________
पखिकासमेतः।
३८१ म्बन्धग्रहणाद्विशिष्टविषयो बोधः स्यात् , किं तर्हि सजातीयविजातीयेभ्यो व्यावृत्तस्वार्थमात्रस्य प्रहात्-ग्रहणान्मतो विशिष्टविषयो बोधः ॥ १२७१ ॥ । कथं तर्हि विशिष्टत्वमस्य वैशिष्ट्यमस्येत्यादि व्यपदेशो व्यतिरेकीवेत्याह-भेद यादि ।
भेदो वैशिष्ट्यमुक्तं हि न विशेषणसङ्गतिः।
भिन्नमित्यपि तद्वाचा नानुवि प्रतीयते ॥ १२७२॥ भेदः सजातीयविजातीयेभ्यो व्यावृत्तिः । सा च नान्या व्यावृत्ताद्भावात् , भाव एव हि भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथोच्यते। स्यादेतत्-यदि विजातीयसजातीयेभ्यो मिन्नस्य वस्तुनो ग्रहणं नियमेन तर्हि सविकल्पकं ग्रहणं प्राप्त मिन्नमेतदित्येवमाकारप्रवृत्तत्वात् । अन्यथा कथं तद्विषयं स्याद्यद्यन्याकारप्रवृत्तं भवेत्, नहन्याकारप्रवृत्तं तद्विषयं युक्तमतिप्रसङ्गादित्याशङ्कयाह-भिन्नमित्यपि तदित्यादि ॥ १२७२ ॥ कथं तर्हि मिन्नमित्यभिधीयत इत्याह-स्वभावापरेत्यादि ।
स्वभावापरनिःशेषपदार्थव्यतिरेकिणि ।
गृहीते सति तसिंस्तु विकल्पो जायते तथा ॥१२७३ ॥ स्वभावादपरे ये निःशेषाः पदार्थास्तेभ्यो व्यतिरेकिणि व्यावृत्ते गृहीते सत्यसाधारणनीलाद्याकारप्रतिभासनात्पश्चाद्भेदाध्यवसायी शब्दाकारानुस्मृतो मिन्नमित्यमिलपन्नुत्पद्यते विकल्पः । नचेदस्त्वमिलापस्वभावं तत्संसृष्टात्मतत्त्वं वा, येन भिन्नमित्यमिन्नमिति नाना संयोज्यग्रहणे सति गृहीतं स्यात् । तस्मादसिद्ध एव हेतुः१२७३
अथ व्यावृत्तिवशाद्विशिष्ट इति कृत्वा विशिष्टविषयत्वादिति हेत्वर्थः, नार्थान्तरविशेषणसम्बन्धात् । तदाऽपि स्वतो नैकान्तिको हेतुरिति दर्शयन्नाह-विशेषणेसादि।
विशेषणानवच्छिन्नं परैः सामान्यमिष्यते।
निर्विकल्पकविज्ञानग्राह्यं तत्राप्यतः समम् ॥ १२७४ ॥ द्विरूपं हि सामान्यं विशेषणावच्छिन्नरूपमनवच्छिन्नरूपं च । तत्र यदनवच्छिमरूपं तनिर्विकल्पकविज्ञानप्रागमिष्टम् । तत्रापि-सामान्ये । अत एतद्विकल्पकविज्ञानप्राशत्वं तुल्यम् ॥ १२७४ ॥