________________
तत्त्वसङ्ग्रहः।
यदि परत्रासम्भविना स्वरूपेण विशिष्टार्थग्राहीन्द्रियज्ञानमभिप्रेतं तदा सविकल्पकं प्राप्नोति, केनचिद्रूपेण विशिष्टार्थग्राहित्वात् , वृक्षोयमित्यादिबोधवत् ॥१२६८॥
स्थान्मतम्-नार्थमात्रं नाम किंचिदस्ति यत्स्वरूपेण विशिष्य गृह्यते । किं तर्हि ? यत्तद्विशिष्टं रूपं तव मम विशेषामिमतं तदेवास्ति गृह्यते चेति, अत आह-विशेपोऽस्पष्टसामान्यो नच कश्चन विद्यत इति ।
विशेषोऽस्पृष्टसामान्यो न च कश्चन विद्यते।
ग्रहणे चेत्तदस्पष्टं विभावत्वान्न गृह्यते ॥ १२६९ ॥ अत्र मानं नाम सामान्यमुच्यते, यत्तत्सत्तेत्याख्यायते, तन्निरपेक्षो न कश्चिविशेषो विद्यते, यो गृह्येत तत्र । एतत्स्यात्-त्वन्मत्या यद्यपि तदस्ति सामान्यं, प्रहणकाले तु तन्न स्पृश्यत इत्याह-ग्रहणे चेत्तदसष्टं विभावत्वान्न गृह्यत इति। ग्रहणकाले यदि तत्सामान्यं सत्ताख्यं इन्द्रियज्ञानेन न स्पृश्यते, विशेषमात्रमेव गृह्यते, तदा तद्विशेषमात्रं गृह्यमाणं भावरहितं सत्ताख्यस्वभावविकलं निःस्वभावं प्राप्तमिति नेन्द्रियज्ञानग्राह्यं स्यात् , विभावत्वात्-विगतभावत्वात् । वियत्पुष्पव. दिति ॥ १२६९ ॥
विशिष्टविषयो बोधः कल्पना नेति साहसम् ।
न विशेषणसम्बन्धादृते वैशिष्ट्यसम्भवः ॥ १२७० ॥ तस्माद्विशिष्टविषयो बोधोऽथ च कल्पना नास्तीति साहसमेतद्भवतां प्रमाणबाधितमभ्युपगच्छतामित्युपसंहारः। अत्रैवोपपत्तिमाह-न विशेषणेत्यादि । नहि दण्डसम्बन्धमन्तरेण तद्वान्भवति, तद्विशिष्टोऽपि विशेषसम्बन्धमन्तरेण न युक्त इति भावः । तस्माद्यद्विशेषणसम्बन्धग्रहणं तत्सविकल्पकमिति । प्रयोग:-विवादास्पदीभूतं विशिष्टविषयं ज्ञानं सविकल्पकं, विशिष्टविषयत्वात् , पटोऽयमित्यादिमानवदिति ॥ १२७० ॥ सजातीयेत्यादिना प्रतिविधत्ते।
सजातीयविजातीयव्यावृत्तार्थग्रहान्मतः।
विशिष्टविषयो पोषो न विशेषणसङ्गतेः ॥ १२७१ ॥ यदत्रं यदि व्यतिरिक्तविशेषणसम्बन्धात् (इति) विशिष्टविषयत्वादिति हेत्वा , तदा न सिद्धो हेतुः, तथाहि-न बौद्धस्य विशेषणं नाम किंचिदस्ति । येन तत्स