________________
पलिकासमेतः। नन्वित्यादिना प्रथमे हेतौ सुमतेर्दिगम्बरस्य मतेनासिद्धतामाशते ।
ननु नामादिकं माभूत्तस्य प्राथं विशेषणम् । तथाऽप्यसिद्धता हेतो व व्यावतते यतः॥ १२६५ ॥ अर्थान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि। अर्थमात्रग्रहो वा स्यादग्रहो वा घटे यथा ॥१२६६ ॥ घटान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि ।
घटमात्रग्रहो वा स्यादग्रहो वा घटस्य वै ॥ १२६७ ॥ स हि सामान्यविशेषात्मकत्वेनोभयरूपं सर्व वस्तु वर्णयति । सामान्यं च द्विरूपम् । विशेषेणावच्छिन्नं यथा गोत्वादि, अनवच्छिन्नं यथा सत्तावस्तुत्वादि । तत्र यदनवच्छिन्नमेकरूपं तदालोचनामात्रस्य निर्विकल्पकप्रत्यक्षस्य गोचरः । इतरत्पुनः सविकल्पकस्येत्येषा तस्य प्रक्रिया । कुमारिलस्तु-आलोचनाज्ञानं निर्विकल्पकं व्यक्तिस्खलक्षणविषयं वर्णयति । सामान्यविषयं तु सविकल्पकं प्रत्यक्षम् । तत्र सुमतिः कुमारिलाद्यमिमतालोचनामात्रप्रत्यक्षविचारणार्थमाह । तद्वादीदं प्रष्टव्यः । किंतदिन्द्रियस्य पुरःस्थितमर्थमात्रं स्वेन रूपेणार्थान्तराऽसम्भविना विशिष्टं गृह्यते ? नेति । यद्यसौ ब्रूयान्नेति । अत्रोच्यते-अर्थान्तरव्यवच्छिन्नरूपेणामहणं यदि-विवक्षितादाद्यदर्थान्तरं, ततो व्यवच्छिन्नं-तत्राविद्यमानं विवक्षितार्थस्थं रूप-खभावः, तेन विशिष्टस्य यदि तस्यार्थस्याग्रहणमिष्यते, तदा तदर्थमात्रग्रहो वा स्यात्-यत्तद्र्थमात्रमर्थान्तरासम्भवि-स्वभावरहितं तस्यैव प्रहणं स्यात् । अथ तदपि न गृह्यते, तदा, अग्रहो वा–अग्रहणमेव स्यात् । घटे यथेति निदर्शनमुक्तं तच्छुोकान्तरेण व्याचष्टे-घटान्तरेत्यादि । अवधीकृतघटासम्भविना रूपेण यदि तस्य घटस्याप्रहणं तदा घटमात्रग्रहो वा स्यात्-केनचिद्राजतताम्रादिना विशेषेणाविशिष्टस्य घटमात्रस्य ग्रहणं स्यात् । घटमात्रस्यापि ग्रहणं न भवति तदा कस्यचिदप्यमिमतस्यापि न ग्रहणं स्यादित्याहो वा घटस्य वै । एवमत्रापि दार्टान्तिके विशेषाग्रहणेऽर्थमात्रप्रहणं न प्रहणं वा स्यादित्येकान्तः ॥ १२६५ ॥ १२६६ ॥ १२६७ ।। अथ पूर्वकः पक्षः, अत्राह-ग्राह्यान्तरेत्यादि ।
ग्रायान्तरव्यवच्छिन्नं भावेन ग्राहि चेन्मतम् । - सविकल्पकविज्ञानं भवेदक्षादिबोधवत् ॥ १२६८ ॥