________________
तस्वसहः।
नामापि वाचकं नैव यच्छब्दस्य स्खलक्षणम् । खलक्षणस्य वाच्यत्ववाचकवे हि दूषिते ॥ १२६१ ॥ अध्यारोपितमेवातो वाच्यवाचकमिष्यते । अनारोपितमर्थ च प्रत्यक्ष प्रतिपद्यते ॥१२६२ ॥ खलक्षणस्य सद्भावे सद्भावात्तदभावतः ।
व्यवधानादिभावे च तस्यापि व्यतिरेकतः ॥ १२६३ ॥ नहि स्खलक्षणे सङ्केतः, नापि शब्दस्खलक्षणे, तयोर्व्यवहारकालेऽनन्वयात् । नच खलक्षणव्यतिरेकेणान्यच्छब्दस्वरूपमस्ति । नचासङ्केतितोऽर्थः शब्देन योज्यतेऽतिप्रसङ्गात् । नापि शब्दयोजनमन्तरेण विकल्पः । तस्मादध्यारोपित एव वाच्यवाचकभावो न पारमार्थिकः । स्यादेतदारोपितमेवार्थ तर्हि प्रत्यक्षं प्रतिपद्यमानं सविकल्पकं भविष्यतीत्याह-अनारोपितमित्यादि । तदभावत इति । तस्यापि व्यतिरेकत इति सम्बन्धः । तस्य स्खलक्षणस्याभावात्तस्यापि प्रत्यक्षस्य व्यतिरेकतोऽभावादिति यावत् । कदा स्खलक्षणस्याभाव इत्याह-व्यवधानादीतिं । आदिशब्देन देशकालविप्रकर्षादिः ॥ १२६१ ॥ १२६२ ॥ १२६३ ॥ अशक्यसमय इत्यादिना प्रमाणान्तरमप्याह
अशक्यसमयो ह्यात्मा नीलादीनामनन्यभाक् ।
तेषामतश्च संवित्तिर्नाभिजल्पानुषङ्गिणी ॥ १२६४ ॥ नीलादीनामात्मा-स्वभावः, अशक्यसमय:-अशक्यसङ्केतः । कथमिति प्रश्ने कारणमाह-अनन्यभागिति । अनन्यभाक्-असाधारणः । व्यवहारकालाप्रत्युपस्थायीति यावत् । व्यवहारार्थत्वात्समयस्येति नात्र शब्दसङ्केतः। किंच-विषयीकते चायं समयो भवति नाविषयीकृते, न तावदनुत्पन्नं प्रत्यक्षं नीलाद्यात्मानं विषयीकरोति, उत्पन्नं चामिलापमादाय योजयेत् । उत्पत्तिकालेऽमिलापग्रहणकाले च क्षणिकत्वान्न विषयेणापि प्रत्यक्षं विषयीति केन कुत्र योजनमित्यतोऽप्यशक्यसमयो नीलादीनामात्मा । तेषामिति । नीलादीनाम् । नाभिजल्पानुषङ्गिणीति । नाविष्टामिलापा । तत्र प्रयोगः-यद्यत्रागृहीतसमयं न तत्तत्र सविकल्पकं भवति, तद्यथा-वक्षुर्विज्ञानं गन्धे, अगृहीवसमयं च प्रत्यक्षं नीलाद्यात्मनीति व्यापकविरुबोपळम्भः ॥ १२६४ ॥