________________
पखिकासमेतः। क्रियमाणा स्मृत्यैव क्रियते, नेन्द्रियज्ञानेन, तस्य वस्तुसन्निधानबलभाविनोऽतीतार्थग्रहणासामर्थ्यात् । यश्चास्याः स्मृतेर्विषयो नासौ परिस्फुटः, कस्मात् ?, विनष्टत्वात् । तस्मादस्पष्टाभत्वप्रसङ्गानेयं मानसी भ्रान्तिः । किं तर्हि ?, इन्द्रियजा, इति साध्यविकलो दृष्टान्तः ॥ १२५४ ॥ १२५५ ॥ १२५६ ॥
एवं प्रत्यक्षतो धियः कल्पनाविरहं प्रतिपाद्य सांप्रतमनुमानतः प्रतिपादयतियदि चेत्यादि ।
यदि चाप्यस्य भावस्य यद्रूपस्थितिकारणम् । न विद्यते न तत्त्वेन स व्यवस्थाप्यते बुधैः॥ १२५७ ॥ अविद्यमानसालादिर्यथा कर्को गवात्मना। विशेषणविशिष्टार्थ ग्रहणं न च विद्यते ॥१२५८ ॥ सविकल्पकभावस्य स्थितेराक्षे निबन्धनम् । विपक्षः शाबलेयादिरन्यथाऽतिप्रसज्यते ॥ १२५९ ॥ नचाप्रसिद्धता हेतोर्जात्यादेः प्रतिषेधतः।
भेदेन चापरिच्छेदान्नचास्त्येवं विशेषणम् ॥ १२६० ॥ प्रयोगः-यस्य यद्रूपं व्यवस्थितौ निमित्तं नास्ति न तत्तथा प्रेक्षावद्भिर्यवहर्तमिर्व्यवस्थाप्यते, तद्यथा-अविद्यमानगोप्रज्ञप्तिनिमित्तभूतककुदादिसमुदायः कर्को गोत्वेन । नास्ति च प्रत्यक्षस्य नीलाद्यसाधारणविषयबलेनोत्पद्यमानस्य सविकल्पकभावव्यवस्थितौ विशेषणविशिष्टार्थग्रहणं निमित्तमिति कारणानुपलब्धिः। वैधर्येण शाबलेयबाहुलेयादयः । सर्वथा सर्वस्य व्यवस्थानप्रसङ्गो व्यवस्थापयितुश्चाप्रेक्षापूर्वकारिताप्रसङ्गो बाधकं प्रमाणमिति संक्षेपार्थः। कर्क:-शुक्लोऽश्वः । जात्यादेरिति । विशेषणस्येति शेषः । सन्तु नाम वस्तुभूता जात्यादयस्तथाऽपि नासिद्धतेति दर्शयन्नाह-भेदेन चापरिच्छेदादिति । विशेष्यत्वेनामिमतादूपादेरित्यध्याहार्यम् । यदि नाम भेदेनापरिच्छेदो जातस्तथापि विशेषणं कस्मान्न भवतीत्याह-नचास्त्येवमिति । भेदेनापरिच्छिन्नम् । तस्माद्विशेषणविशिष्टार्थग्रहणं न विद्यत इत्यस्य हेतो सिद्धता ॥ १२५७ ॥ १२५८ ॥ १२५९ ॥ १२६०॥
स्यादेतन्माभूज्जात्यादिकं विशेषणं, शब्दखरूपमेव तु विशेषणं भविष्यतीत्याहनामापीत्यादि ।