________________
तस्त्वसङ्ग्रहः ।
शुद्धे व मानसे कल्पे व्यवसीयेत न क्रमः । अल्पा च सर्वबुद्धीनामाशुवृत्तिविरास्थितेः ।। १२५२ ॥ अतः सर्वत्र विषये न क्रमग्रहणं भवेत् । सकृग्रहणभासस्तु भवेच्छब्दादिबोधवत् ॥ १२५३ ॥ एकैका धीः पश्वमिर्धीमिर्व्यवधीयमानाऽपि नर्तकीदर्शनाद्यवस्थायामव्यवहितेव प्रतिभाति । तथाहि — यदैव नर्त्तकीमुत्पश्यति तदैव गीतादिशब्दं शृणोति, कर्पूरादिरसमास्वादयति, नासिकापुटविन्यस्तकुसुमामोदं जिघ्रति, व्यजनानिलादिस्पर्श च स्पृशति, वस्त्राभरणादिदानादि च चिन्तयति । ततश्च यदि बहुभिर्व्यवधानेऽपि बुद्धीनां सकृद्भाव भ्रान्तिराशूत्पत्तिबलादुपजायते, तदा लता ताल: सरो रस इत्येवमादावेकज्ञानव्यवधानाद्वर्णश्रुतीनामत्यर्थं लघुवर्त्तनमस्तीति सकृद्वर्णप्रतिभास: प्राप्नोति । ततश्च सरो रस इत्यादौ शब्दे श्रूयमाणे श्रुतिभेदोऽर्थप्रतीतिभेदश्च न स्यात् । किंच — बुद्धेर्विजातीयचक्षुरादिविज्ञानाव्यवहिते नानाविद्यार्थचिन्तारूपे वि. कल्पे समुत्पद्यमाने शीघ्रवृत्तिरस्तीति न क्रमव्यवसायः प्राप्नोति । सर्वासां च बुद्धीनां क्षणिकत्वेन चिरानवस्थानादाशुवृत्तिरस्तीति कस्यचिदर्थस्य न क्रमवती प्रतीतिः स्यात् । शब्दादिबोधवदिति । नर्त्तकी प्रेक्षावस्थायां शब्दादिसंवेदनवत् ।। १२५० ॥ ।। १२५१ ।। १२५२ ।। १२५३ ।।
यश्चायमलातवदिति दृष्टान्तः स साध्यविकल इति दर्शयन्नाह अलातेऽपी
त्यादि ।
BOT
-
अलातेऽपि सकृद्धान्तिश्चक्राभासा प्रवर्त्तते ।
न दृशां प्रतिसन्धानाद्विस्पष्टं प्रतिभासनात् ॥ १२५४ ॥ तथाहि प्रतिसन्धानं स्मृत्यैव क्रियते नतु । दर्शनेन व्यतीतस्य विषयस्यानवग्रहात् ॥ १२५५ ॥ यश्चात्या विषयो नासौ विनष्टत्वात्परिस्फुट: । ततः परिस्फुटो नायं चक्राभासः प्रसज्यते ॥ १२५६ ॥ यतो नेयं मानसी भ्रान्तिः क्रमवर्त्तिनी दर्शनानि घटयन्ती समुपजायते, किं तर्हि ?, सकृदेकैवेन्द्रियजा चक्राकारा भ्रान्तिः सामग्रीविशेषबलादुत्पद्यते, विस्पष्टप्रतिभासत्वात् । नहि विकल्पानुबद्धस्य स्पष्टप्रतिभासित्वं युक्तम् । तथाहि घटना