________________
पलिकासमेतः। क्रमेणवोपजायन्ते विज्ञानानीति चेन्मतम् । ... सकृद्रावाभिमानस्तु शीघ्रवृत्तेरलातवत् ॥ १२४७ ॥
यदि क्रमेणोपजायन्ते कथं युगपत्प्रवेद्यन्त इत्याह-सकृद्भावाभिमानस्त्विति । -अलात इवालातवत् । यथाऽलाते शीघ्रभ्रमणात्सकञ्चक्राकारा प्रतीतिस्तदर्शनानां घटनादेवं ज्ञानानां शीघ्रोत्पत्तितः सकृद्भावाभिमान इति । अथवा-अलातशब्देन विषयिणि ज्ञाने विषयोपचारात्तद्विषयाणि ज्ञानान्युच्यन्ते । पूर्ववद्वतिः॥ १२४७ ॥ नेति पूर्वपक्षं प्रतिक्षिपति। __न तदाऽभिमुखीभूतभावनामानुषगवान् ।
विकल्पो विद्यते दृश्य इत्येवोक्तं न००ना ॥ १२४८ ॥ एवं मन्यते-न सकृद्भावप्रसाधनमत्र प्रकृतम् , किं तर्हि ? । धियः कल्पनाविरहः । स चान्यत्र गतचित्तस्याप्यभिमुखीभूतपदार्थानुभवकाले तन्नामसंसर्गिणो विकल्पस्योपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिध्यतीति नात्र किंचिडूषणमुक्तम् । तथाहि यदि नाम क्रमेण ज्ञाने संवेद्यते नतु विकल्पः संवेद्यत इति न प्रकृतस्य व्याघातः ॥ १२४८॥ न चायं सकृद्भावाभिमानोऽपि भ्रान्त इत्यादर्शयन्नाह-भ्रान्तिरित्यादि।
भ्रान्तिस्तदभिमानश्च तद्व्यक्तं च निरन्तरम् ।। . . . .
तदेव चार्थविज्ञानयोगपद्यमतः स्फुटम् ॥ १२४९ ॥ भ्रान्तिर्नेति प्रकृतं संबन्धनीयम् । तदभिमान इति । तस्य-सकृद्धावस्यामिमान इति विग्रहः । बाधकप्रमाणवशाद्विभ्रान्तिव्यवस्थानं, नचात्र बाधकमस्ति, येन भ्रान्तिः स्यात् । कथं नास्तीत्याह-तद्व्यक्तं च निरन्तरमिति । तदित्यभिमुखी. भूतार्थसंवेदनं निरन्तरविषयान्तरासक्तचित्तसमकालं स्पष्टमनुभूयते । तदेव चेदृशमर्थविज्ञानं प्रत्यक्षमुच्यत इति कुतो भ्रान्तिः ॥ १२४९ ॥
न केवलं सकृद्भावस्य भ्रान्तत्वव्यवस्था प्रति न किंचित्साधकमस्ति, प्रत्युत बाधिकमस्तीति दर्शयन्नाह नर्तकीत्यादि ।
नर्तकीदृष्ट्यवस्थादावखिलं वेद्यते सकृत् । बहुभिर्व्यवधानेऽपिभ्रान्तिःसाचा(श्वेदा?)शुवृत्तितः१२५० लतातालादिबुद्धीनामत्यर्थं लघुवर्तनम् । सकृद्रवाभिमानोऽतः किमत्रापि न वर्तते ॥ १२५१ ॥ .