________________
सस्वसङ्ग्रहः । नत्वाधेयनिषेधमिति प्रथमं तावदचोद्यम् । द्वितीयमप्यचोद्यमेव, यतो नानमिधे. यार्थः कल्पनापोढार्थों वर्णितः । किं तर्हि ? अविकल्पकार्थः । अविकल्पकमपि ज्ञान यद्यप्यभिधीयते शब्देनाध्यवसायानुरोधात् । तथापि रूपादिवन्न विकल्पकतां यास्यतीति यत्किंचिदेतत् ।। १२३९ ॥ १२४० ॥ १२४१ ॥ १२४२ ॥
सादेतत्-भवत्वेवं यथोपवर्णिता कल्पना । कल्पनापोढं तु कथं सिद्धमित्याह -प्रत्यक्षमित्यादि।
प्रत्यक्षंकल्पनापोडं वेद्यतेऽतिपरिस्फुटम् ।
अन्यत्रासक्तमनसाऽप्यक्षैर्नीलादिवेदनात् ॥ १२४३ ॥ अनेन स्वसंवित्त्या प्रत्यक्षतः कल्पनाविरहः सिद्ध इत्यादर्शयति ॥ १२४३ ॥ स्यादेतदसावेव विषयान्तरण्यासक्तो विकल्पः पुरस्स्थं नीलादि प्रतिपद्यत इत्याह नासावेवेत्यादि ।
नासावेव विकल्पो हि तमर्थ प्रतिपद्यते । , अतीताद्यभिधात्यागात्तन्नामघटनाप्तितः ॥.१२४४॥ यदि हि स एव विकल्पस्तमर्थ प्रतिपद्येत तदाऽतीताद्यमिधानत्यागेन तस्यैव नीलादेर्नाम योजयेत् । एकत्राभिलापद्वयसंसर्गाप्रतीतेरतीताद्यभिधात्यागादित्युकम् । तस्यामिमुखीभूतस्य नाम, तन्नाम, तस्य घटना-योजना, तस्या आप्तिःप्राप्तिः । प्रसङ्ग इति यावत् ॥ १२४४ ॥
स्यान्मतम्-अन्य एव तर्हि विकल्पस्तदा तमर्थ प्रतिपद्यत इत्येवं कस्मान्न विज्ञा. यत इत्याह-तदा तन्नामेत्यादि ।
तदा तन्नामसंसर्गी विकल्पोऽस्त्यपरो न च। ।
दृश्यस्यापतिसंवित्तेरनिष्टश्च द्वयोः सकृत् ॥ १२४५ ।। - अनेन यथाक्रमं प्रत्यक्षविरोधम् , अभ्युपगमविरोधं च सद्विकल्पद्वयप्रतिज्ञा. यामाह-द्वयोरिति । विकल्पयोरिति शेषः ॥ १२४५ ॥ विकल्पेत्यादिनोपसंहरति ।
विकल्पकमतो ज्ञानसहभाव्यनुभूयते ।
तमादिन्द्रियविज्ञानमकल्पनमिदं स्फुटम् ॥ १२४६ ॥ विकल्पसहभावित्वमसिद्धमिति कदाचित्परो यादतस्तदाशयमाह-क्रमेणे
त्यादि। .