________________
पविकासमेतः।
३०३ यत्रापि भेदेन ग्रहणमस्य गोत्वमस्येदं नामेति, तत्रापि कल्पनेष्यत एव । ननु चानुप्रतीतिः कल्पनेति नोक्तं, तत्कथं यथोक्तकल्पना लभ्यत इत्याह-ज्ञानमित्यभिसम्बन्धादिति । एतदुक्तं भवति-कल्पनावैपरीयेन ज्ञानमेव प्रत्यक्षत्वेन दर्शयता ज्ञानधर्मत्वं कल्पनाया दर्शितम् । तथाचायमर्थो भवति-यज्ज्ञानं नामायने. दोपचारेणाविकल्पकं तत्प्रत्यक्षं, यत्तु ज्ञान तथा विकल्पकं तत्कल्पनात्मकत्वान्न प्रत्यक्षमिति सामर्थ्यादमिलापिनी प्रतीतिः कल्पनेति प्रत्यक्षवैपरीत्येन सिध्यति एवं परापरमतमहो दर्शित इति ॥ १२३७ ॥ यहा खमतोपवर्णनमेव केवलमाचार्येण कृतमित्यादर्शयति-यवेत्यादि ।
यद्वा विशेषणं भेदो येनान्यापोहकछुतिः।
जात्यादीनां व्यवच्छेदमनेन च करोत्ययम् ॥ १२३८ ॥ भेदो विशेषणं व्यावृत्तिरित्यर्थः । तस्यामिधायकं, न जात्यादीनां, तस्याभेदोपचार इति विप्रहः ॥ १२३८ ॥
ननु च यदि प्रतीतिरमिलापिनी कल्पना, सा धर्मिणी, नच धर्म्यन्तरे धर्म्यन्तरस्य प्रसङ्गो येन तनिषेधस्तद्धर्मतया क्रियत इत्यसम्बन्धामिधानम् । तथा यदि प्रत्यक्षं कल्पनापोढम् , कत्वं (थं ?) तत्प्रत्यक्षशब्देनोच्यत इति, अनभिधेयार्थः किल कल्पनापोढार्थ इति मन्वानाः परे भर्गभारद्वाजप्रभृतयश्चोदयन्ति । एतच्च सर्व परिहृतमेवेति योजयबाह-एवं प्रतीतिरूपा चेत्यादि ।
एवं प्रतीतरूपा च यदेवं कल्पना मता। तादात्म्यप्रतिषेधच प्रत्यक्षस्योपवण्यते ॥१२३९ ॥ तदाऽध्यक्षादिशब्देन वाच्यत्वेऽपि न बाध्यते । कल्पनाविरहोऽध्यक्षे न हि सा शब्दवाच्यता ॥ १२४०॥ अन्यथा रूपगन्धादेः सविकल्पकता भवेत् । अतो नास्पदमेवेदं यदाहुः कुधियः परे ॥१२४१ ॥ यदि प्रत्यक्षशब्देन प्रत्यक्षमभिधीयते।
कथं तत्कल्पनापोटमयुक्तं गम्यते कथम् ॥ १२४२॥ तादात्म्यप्रतिषेध इति । यत्रैषा कल्पना नास्ति तत्प्रत्यक्षमित्यनेन प्रन्येन लक्षणकारस्तादात्म्यप्रतिषेधं करोति । एवंभूतं कल्पनात्मकं यजानं न भवतीय।