________________
तन्त्वसङ्ग्रहः ।
जात्यादियोजना शब्द योजनाऽव्यभिचारिणी । एवं चोच्यत इत्येतत्फलवज्जायते वचः ।। १२३३ ॥ जातिगुणक्रिया द्रव्ययोजनायामपि कल्पनायां परैरभ्युपगतायां नामयोजनैव कल्पना । तथाहि — तत्र जात्यादिव्यवच्छिन्नं वस्तु नान्नैव विशिष्टं गृह्यते, अन्यथा हि स्वातच्येणानेकपदार्थग्रहणनद्योजनाभावात्कथं कल्पना भवेत्, ततश्च मूकमेव जगत्स्यात् । अतएव च दण्डयुक्तं पुरुषं पश्यन्नपि न तावद्दण्डीति योजयति यावन्न नामभेदं स्मरति । यत एव शब्दयोजनया सर्वा योजनाव्याप्ता, अतएव चाचार्थीयं “जात्या विशिष्टोऽर्थ उच्यते गौरित्यादिषु यदुच्यत" इति वचनं तत्सफलं भवेत् । अन्यथा बिना नान्ना कथमुच्यत इति स्यात् । अभिधानक्रियायाः शब्दधर्मत्वात् ।। १२३० ।। १२३१ ।। १२३२ ।। १२३३ ॥
तस्मादित्यादिना कल्पनासिद्धिमुपसंहरति ।
तस्मात्समस्तसिद्धान्तसंस्थितानां प्रवादिनाम् । अविवादादयनेन साध्येयं कल्पना मया ॥। १२३४ ॥ लक्षणकारस्य कल्पनां सिद्धिरूपां निर्दिशतोऽभिप्रायमाह - एतदागूर्येति । एतदार्य सकलं नामजात्यादिवर्णनम् ।
मतयोः खान्ययोरित्यमुपादानमिहाकरोत् ॥ १२३५ ॥ तेभ्योऽस्माकमियानेव भेद इत्येवमनुवन् ।
अन्ये वित्यादिकं वाक्यमनन्तरमदो जगौ ॥ १२३६ ॥ हेयोपादेयविषयकथनं जात्यादियोजनां विना नामयोजनां विना भाविनीत्यादि पूर्वोपवर्णितम् । नामजात्यादिवर्णनमिति । अकरोदिति सम्बन्धः । स्वाम्ययोस्तु मतयोरुपादानं हेयोपादेयविषयकथनाय ।। १२३५ ॥। १२३६ ॥
न्यायमुखग्रन्थस्तर्हि कथं नेय इत्याह - एवमित्यादि ।
एवं न्यायमुख ग्रन्थो व्याख्यातव्यो दिशाऽनया । ज्ञानमित्यभिसम्बन्धात्प्रतीतिस्तत्र चोदिता ।। १५३७ ॥ तंत्रायं न्यायमुखप्रन्थः — " यत् ज्ञानमर्थरूपादौ विशेषणामिघायकाभेदोपचारेणाविकरूपकं तदक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम् ” विशेषणं जात्यादि, अभिधायकं नाम, तयोरभेदोपचारो जात्यादिमद्भिः संज्ञिना च । अभेदोपचारग्रहणमुपलक्षणम्
३७२