SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ३१६ तस्वसहाहः । अत्र दृष्टान्तमाह-तिमिरोपहताक्षो हीत्यादि । तिमिरोपहताक्षो हि यथा प्राह शशिद्वयम् । खसमाय तथा सर्वा शाब्दी व्यवहृतिर्मता ॥ १२११॥ स्वसमायेति । आत्मतुल्यायापरस्मै तैमिरिकायेत्यर्थः ॥ १२११ ॥ नचाप्यानर्थक्यं सङ्केतस्येति दर्शयति-व्यापकत्वं चेति । व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम् । मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः ॥१२१२॥ इति शब्दार्थपरीक्षा । - सङ्केतव्यवहाराप्तकालव्यापकत्वं च वक्तृश्रोतृभ्यामध्यवसितार्थप्रतिबिम्बकस्यावसायवशादेवेष्टं, न परमार्थतः, व्यवहारकालेऽपि वक्तश्रोत्रोः पूर्वापरकालदृष्टयोरर्थयोरैक्याभिमानात् । अथ परमार्थतः कस्मान्नेष्टमित्याह-मिथ्यावभासिन इत्यादि ॥ १२१२॥ इति शब्दार्थपरीक्षा। तत्र प्रमाणे स्वरूपफलगोचरसङ्ख्यासु परेषां विप्रतिपत्तिश्चतुर्विधा । तन्निराकरणेन स्पष्टं प्रमाणलक्षणमादर्शयितुं "स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चित"मित्येतत्समर्थना. र्थमाह-प्रत्यक्षमित्यादि । प्रत्यक्षमनुमानं च यदुपाधिप्रसिद्धये। . परैरुक्तं न तत्सिद्धमेवंलक्षणकं हि तत् ॥ १२१३ ॥ उपाधिप्रसिद्धय इति । गुणद्रव्यक्रियाजातिसमवायाधुपाधिप्रसिद्धये । परैरिति । वैशेषिकादिमिः । एवमिति । वक्ष्यमाणम् ॥ १२१३ ॥ तत्र सविकल्पकमज्ञानखभावं वा चक्षुरादिकं प्रत्यक्षं प्रमाणमिति प्रत्यक्षस्वरूपविप्रतिपत्तिः, तन्निराकरणेन तल्लक्षणमाह-प्रत्यक्षं कल्पनापोढमभ्रान्तमिति । प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी। प्रतीतिः कल्पना तृप्तिहेतुत्वाधात्मिका न तु ॥ १२१४ ॥ तत्र ज्ञानस्य कल्पनापोढत्वमभ्रान्तत्त्रं चानूय प्रत्यक्षत्वं विधीयते, सर्वत्रैव लस्त्यस्य विधीयमानत्वात् । यथा-यः कम्पते सोऽश्वत्थ इति । लक्ष्यमत्र प्रत्यक्षम् । वलक्षणस्यैव प्रस्तुतत्वात् । नतु कल्पनापोढाधान्तलक्षणं प्रकृतं, येन तद्विधीयत
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy