________________
पञ्जिकासमेतः : ।
३६७
1
इति स्यात् । कल्पनाप्रतिषेधाश्च ज्ञानस्य सामर्थ्यलब्धत्वात्, अवत्सा धेनुरानीयता - मिति यथा वत्सप्रतिषेधेन गोधेनोः, इत्यतो ज्ञानमिति नोक्तम् । का पुनरत्र कल्पनाऽभिप्रेता ? यदपोढं ज्ञानं प्रत्यक्षमित्याह - अभिलापिनी प्रतीतिः कल्पनेति *अथ यस्यां क्लृप्तिहेतुत्वाद्यात्मिकायां शङ्करस्वामिप्रभृतयो विस्तरेण दोषमुक्तवन्तः सापि किं गृहीतव्या उत नेत्याह-कृतिहेतुत्वाद्यात्मिका नविति । गृह्णत इति शेषः । तेन तदाश्रयेण ये दोषाः परेणोक्तास्ते तत्पक्षानङ्गीकारादेव नावतरन्तीत्युक्तं भवति । क्लृप्तिर्व्यपदेशस्तद्धेतुत्वं जात्यादीनामिति बोद्धव्यम्, यतो जात्यादिविशेषमन्तरेण न व्यपदेशोऽस्ति । आदिशब्देन शब्दसंसर्गचित्तौदारिकसूक्ष्मताहेतू वितर्क - विचारौ तथा ग्राह्यग्राहक कल्पनेत्येवमादि ग्रहीतव्यम् । अभिलापो - वाचकः शब्दः, स च सामान्याकारः, स विद्यते यस्याः प्रतिभासतः सा तथोक्ता ॥ १२१४ ॥ कुतः पुनरीदृशी प्रतीतिः सिद्धेत्याह — शब्दार्थेत्यादि ।
1
शब्दार्थघटना योग्या वृक्ष इत्यादिरूपतः । या वाचामप्रयोगेऽपि साभिलापेव जायते ॥ १२१५ ॥ वृक्ष इत्यादिरूपतो या वाचामप्रयोगेऽपीति सम्बन्धः । यदि वा — पूर्वेण शब्दार्थघटनायोग्य वृक्ष इत्यादिरूपत इति सम्बन्धः । अनेन प्रत्यक्षत एव कल्पनायाः सिद्धिमादर्शयति सर्वप्राणभृतामनुसिद्धत्वाद्विकल्पस्य ।। १२१५ ॥
तथाह्याबालमसावितिकर्त्तव्यता हेतुतया सिद्धैवेति दर्शयति-अतीतेत्यादि । अतीतभवनामार्थभावनावासनान्वयात् ।
सद्योजातोऽपि यद्योगादितिकर्त्तव्यतापटुः ॥ १२१६ ॥
अतीतो भवः-अतीतं जन्म, तत्र नामार्थभावना - शब्दार्थाभ्यासः, तेनाहिता या वासना - सामर्थ्य, तस्या अन्वयः - अनुगमो यतो बालस्याप्यस्ति तेनाभिलापिनी प्रतीतिस्तस्यापि भवत्येव । यस्याः - कल्पनाया योगात् इतिकर्तव्यतायां स्मितरुदितस्तनपानप्रहर्षादिलक्षणायां, पटुः - चतुरो भवति । अतोऽनया का
भूतया यथोक्ता कल्पना बालस्याप्यनुमीयत एव । यथोक्तम् - " इतिकर्त्तव्यता लोके सर्वशब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यत" इति । सा पुनः सन्मूच्छिताक्षराकारध्वनि विशिष्टमन्तर्मात्रा विपरिवर्त्तिनमर्थ बहिरिवादर्शयन्ती तेषां समुपजायते, यया पश्चात्सङ्केतग्रहणकुशला भवन्ति ।। १२१६ ॥