________________
पलिकासमेतः। प्रतिबिम्बात्मकोऽपोहः सङ्केतविषययोर्द्वयोर्वक्तश्रोत्रोरेको न सिद्ध्यति । कस्मादित्याह -न हि ज्ञानमित्यादि । प्रत्यात्मसंवेदनीयमेवाग्दिर्शनानां ज्ञानम् । न अन्यदीयज्ञानमपरोऽपरदर्शनः संवेदयते । ज्ञानादव्यतिरिक्तश्च परमार्थतः प्रतिबिम्बात्मक*लक्षणापोहः । ततश्च वक्तृश्रोत्रोयोरपि कस्यचिदेकस्य सङ्केतविषयस्यार्थस्यासिद्धेः कुत्र सङ्केतः क्रियते गृह्यते वा । न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीशानोऽपि श्रोता गृहीतुमतिप्रसङ्गात् । तथाहि-श्रोता यत्प्रतिपद्यते स्वविज्ञानारूढमर्थप्रतिविम्बकं न तद्वका संवेद्यते । यच्च वक्रा संवेद्यते न तच्छ्रोत्रा, स्वस्य स्वस्यैवावभासस्य वेदनात् आनर्थक्यं च प्रतिपादयन्नाह-सङ्केते न चेत्यादि । यत्सङ्केतकाले प्रतिबिम्बकमनुभूतं श्रोत्रा वका वा न तद्व्यवहारकालेऽनुभूयते । तस्य क्षणक्षयित्वेन चिरनिरुद्धत्वात् । यच्च व्यवहारकालेऽनुभूयते न तत्सङ्केतकाले दृष्टम् । अन्यस्यैव तदानीमनुभूयमानत्वात् । नचान्यत्र सङ्केतादन्यत्र व्यवहारो युक्तोऽतिप्रसङ्गादिति ॥ १२०८ ॥ १२०९॥ स्वस्य स्वस्येत्यादिना प्रतिविधत्ते ।
खस्य खस्यावभासस्य वेदनेऽपि स वर्तते ।
बाह्यार्थाध्यवसाये यद्वयोरपि समो यतः ॥ १२१० ॥ नहि परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टो येन तत्र सङ्केतासम्भवश्वोद्यते, यतः सर्व एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वयद्विचन्द्रदर्शनवद्धान्त इष्यते, केवलमर्थशून्यामिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थावसायिविकल्पमात्रोत्पादात् । तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात् , नत्वमिधेयतया । तत्र यद्यपि स्वस्य स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवेदनं, तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वाहयोरपि वक्तृश्रोत्रो यार्थाध्यवसायस्तुल्य एव । तथापि वक्तुरयमभिमानो वर्त्तते-यमेवाहमर्थ प्रतिपद्ये तमेवायं प्रतिपद्यत इति । एवं श्रोतुरपि योज्यम् । एकार्थाध्यवसायित्वं कथमनयोवक्तृश्रोत्रोः परस्परं विदितमिति चेत् , यदि नाम परमार्थतो न विदितम्, तथापि भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वप्रतिभासानुरोधेन तैमिरिकद्वयवद्धान्त एवायं व्यवहार इति निवेदितमेतत् । तेनैकार्थाध्यवसायवशात्सङ्केतकरणमुपपद्यत एव ॥ १२१०॥