SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ २६४ तत्त्वसङ्ग्रहा। ये पुनर्वस्तुविषयाः शब्दास्तेषां प्रतिबिम्बकमात्रवाचकत्वसिद्धौ प्रमाणयबाहतन्मात्रेत्यादि। तन्मात्रद्योतकाश्मे साक्षाच्छब्दाः ससंशयाः। सङ्केतसव्यपेक्षत्वात्कल्पितार्थाभिधानवत् ॥१२०५॥ ' ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाहितवासनामात्रनिर्मितविकल्पप्रतिबिम्बकमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः कल्पितार्थाभिधायिनः, सङ्केतसव्यपेक्षाश्च ससंशया विवादास्पदीभूता घटादयः शब्दा इति स्वभावहेतुः ॥ १२०५ ॥ एवं स्वपक्षं प्रसाध्य परपक्षनिषेधाय प्रमाणयन्नाह-परोपगतेत्यादि । परोपगतभेदादिविधानप्रतिपादकाः। न चैते ध्वनयस्तस्मात्तद्वदेवेति गम्यताम् ॥ १२०६ ॥ भेदः-स्खलक्षणम् , आदिशब्देन जात्यादिपरिग्रहः । तस्मादिति । सङ्केतसापेक्षत्वात् । तद्वदेवेति । कल्पितार्थाभिधानवत् ॥ १२०६ ॥ द्वयोरपि हेत्वोरनैकान्तिकतां परिहरन्नाह–सङ्केतासम्भव इत्यादि । सङ्केतासम्भवो पत्र भेदादौ साधितः पुरा । वैफल्यं च न तद्धत्वोः सन्दिग्धव्यतिरेकिता ॥ १२०७ ॥ अशक्यसमयत्वादनन्यभाक्त्वाच्चेति पूर्व स्खलक्षणादौ सङ्केतासम्भवस्य सङ्केतवैफल्यस्य च प्रसाधितत्वात् । तत्-तस्मात् । हेत्वोयोन सन्दिग्धविपक्षव्यतिरेकिवेति ॥ १२०७॥ नन्वित्यादिना परः प्रथमे हेतावनैकान्तिकतामुद्भावयति । ननु चापोहपक्षेऽपि कथं सङ्केतसम्भवः । साफल्यं च कथं तस्य न द्वयोः स हि सिद्ध्यति॥१२०८॥ वक्तृश्रोत्रोर्न हि ज्ञानं वेद्यते तत्परस्परम् । सङ्केते न च तदृष्टं व्यवहारे समीक्ष्यते ॥ १२०९ ॥ यथाहि स्खलक्षणादौ सङ्केतासम्भवो वैफल्यं च तथाऽपोहपक्षेऽपि समानम् , ततश्वाकृतसमयत्वात्तन्मात्रद्योतकत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता हेतोः । साफल्यं च कथमिति । सम्भवतीति शेषः । तस्येति । सङ्केतस्य । कथं पुनस्तत्र सहेतासम्भव इत्याह-न द्वयोः स हि सिक्ष्यतीति । हिशब्दो हेतौ । यस्मा
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy