________________
पञ्जिकासमेतः ।
स्वकारणमवतरति विदुषः । किंतु भवानेव विवक्षितमर्थमविज्ञाय दूषयन्विदुषामतीय
हास्यास्पदमुपजायते ॥ १२०० ॥
तस्माद्येष्वेव शब्देषु नव्योग इत्यादावाह - अवधारणसामर्थ्यादित्यादि ।
३६३
अवधारणसामर्थ्यादन्यापोहोऽपि गम्यते ।
स्वात्मैव गम्यते यत्र विफलो नियमोऽन्यथा ॥ १२०१ ॥
न केवलं यत्र नञ्योगस्तत्रान्यनिवृत्त्यंशोऽवगम्यते, यत्रापि हि नव्योगो नास्ति तत्रापि गम्यत एवेति स्ववाचैवैतद्भवता प्रतिपादितं स्वात्मैव गम्यत इत्यवधारणं कुर्वता । अन्यथा चावधारणवैयर्थ्यमेव स्यात् । यस्माद्यत्र स्वात्मैव गम्यते तत्रावधारणसामर्थ्यादन्यापोहोऽपि गम्यत इति स्फुटतरमेवावसीयते ।। १२०१ ॥
यस्य तत्यादिना परोऽपोहशब्दार्थव्यवस्थाया अन्यापितामेवोद्भावयति । यस्य तर्हि न बाह्येोऽर्थोऽप्यन्यथावृत्त इष्यते ।
वन्ध्यासुतादिशब्दस्य तेन काऽपोह उच्यते ॥ १२०२ ॥ तथाहि यस्य वन्ध्यासुतादिशब्दस्य बाह्यसुतादिकं वस्त्वन्यव्यावृत्तमपोहाश्रयो नास्त्येव, तस्य किमधिष्ठानोऽपोहो वाच्य उच्यते, अवश्यं हि वस्तुनाधिष्ठानभूतेनापोहस्य भवितव्यम्, तस्यान्यापोढपदार्थाव्यतिरेकात् ॥ १२०२ ॥ रूपाभावादित्यादिना प्रतिविधत्ते ।
रूपाभावादभावानां शब्दा जात्यादिवाचकाः ।
नाशङ्क्या एव सिद्धास्ते निर्भासस्यैव सूचकाः ॥ १२०३ ॥ वन्ध्यासुतादीनामभावानां रूपस्य कस्यचित्स्वभावस्याभावान्न तद्विषयाः शब्दा जात्यादिवाचकत्वेनाशङ्कषाः, वस्तुवृत्तीनां हि शब्दानां किंरूपममिधेयमाहोस्वित्प्रतिबिम्बकमिति शङ्का स्यात्, अभावश्च वस्तुविवेकलक्षण एवेति तद्वृत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् । अतो निर्विषयत्वं स्फुटतरमेव । तव ( ? ) शब्दानां प्रतिबिम्बकमात्रोत्पादादवसीयत एवेत्यस्थानमाशङ्कायाः ॥ १२०३ ॥ एतदेव दर्शयति अर्थेत्यादि ।
अर्थशून्याभिजल्पोत्थवासनामात्रनिर्मितम् ।
प्रतिविम्बं यदाभाति तच्छन्दः प्रतिपाद्यते ॥ १२०४ ॥ शब्दैरिति । वन्भ्यासुतादिशब्दैः ॥ १२०४ ॥