________________
३.९
सत्त्वसग्रहः।
व्यतिरेकादिविकल्पः पूर्वमेव निरतः । यदुक्तं-"किमयमपोहो वाच्य” इत्यादि, वत्राह-कतमेनेत्यादि ।
कतमेन च शब्देन वाच्यत्वं परिपृच्छयते। अपोहस्य किमेतेन यदि वा किं घटादिना ॥ ११९५ ॥ । शब्दार्थः किमपोहो वा विधिति निरूपणे । अपोह इति भात्येतद्यत्तदेवं प्रतीयते ॥ ११९६ ॥ प्रतिबिम्बं हि शब्दार्थ इति साक्षादियं मतिः। जात्यादिविधिहानिस्तु सामर्थ्यादवगम्यते ॥ ११९७ ॥ घटवृक्षादिशब्दाश्च तदेव प्रतिविम्बकम् । ब्रुवन्ति जननात्साक्षादादन्यत्क्षिपन्ति तु॥ ११९८ ॥ तस्मान्न विधिदोषोऽस्ति नानिष्टा च प्रसज्यते ।
अवाच्यपक्षदोषस्तु तदनङ्गीकृतेन नः ॥ ११९९ ॥ तत्रान्यापोहवाच्यत्वविकल्पो यद्यन्योपोहशब्दमधिकृत्याधिक्रियते तदा विधिरूपेणैवासौ तेन शब्देन वाच्य इत्यभ्युपगमान्नानिष्टापत्तियुक्ता । तथाहि किं विधिः शब्दार्थ आहोस्विदन्यापोह इति प्रस्तावेऽन्यापोहः शब्दार्थ इत्युक्ते प्रतिपत्तुर्यथोक्तप्रतिबिम्बलक्षणान्यपोहाध्यवसायी प्रत्ययः समुपजायते । अर्थात्तु विधिरूपशब्दार्थनिषेधः । अथ घटादिशब्दमधिकृत्य तत्रापि यथोक्तप्रतिबिम्बलक्षणापोहः साक्षाद्धटादिशब्दैरुपजन्यमानत्वाद्विधिरूपेण च तैः प्रतिपाद्यते, सामर्थ्यात्वन्यनिवृत्तेरधि. गम इति नानिष्टापत्तिः । न चाप्यव्यवस्थादोषः । सामर्थ्यादन्यनिवृत्तेर्गम्यमानत्वादनुवाच्यतयाऽवाच्यपक्षस्यानङ्गीकृतत्वादेव न तत्पक्षभाविदोषोदयावकाश इति दर्शयति-अवाच्यपक्षदोषस्त्विति ॥ ११९५ ॥ ११९६ ॥ ११९७ ॥ ११९८॥ ॥ ११९९ ॥ अपि चैकत्वनित्यत्वेत्यादावाह-एकत्वेत्यादि ।
एकत्खनित्यतादिश्च कल्पितो न तु तात्त्विकः ।
तदत्र हासकरणं महाविद्वत्त्वसूचकम् ॥ १२०० ॥ यदि हि पारमार्थिकमेकत्वाद्युपवर्णनं कृतं स्यात्तदा हास्यकारणमेव स्थावतः, यदाहि भ्रान्तिप्रतिपत्त्यनुरोधेन काल्पनिकमेतदाचार्येणोपवर्णितं तदा कथमिव हा.