________________
पलिकासमेतः।
३६१ कस्माद्भावो न भवतीत्याह-तथाऽसौ नास्तीत्यादि ।
तथाऽसौ नास्ति तत्त्वेन यथाऽसौ व्यवसीयते ।
सन्न भावो न चाभावो वस्तुत्वेनावसायतः ॥ ११९० ॥ , बाह्यरूपतयाऽसौ भ्रान्तैरवसीयते, न चासौ तथाऽवस्थित इत्यतो बाह्यरूपत्वाभावान भावः । अथाभावः कस्मान्न भवतीत्याह-न चाभावो वस्तुत्वेनावसायत इति । बाह्यरूपतया दर्शितत्वान्नैकान्तेनाभाव इत्यपि शक्यं वक्तुम् ॥११९०॥ अथ पृथक्त्वैकत्वादिलक्षणः कस्मान्न भवतीत्याह-भेदाभेदादय इत्यादि ।
भेदाभेदादयः सर्वे वस्तुसत्परिनिष्ठिताः।
निःस्वभावश्च शब्दार्थस्तमादेते निरास्पदाः ॥ ११९१ ॥ भेदाभेदादयः-व्यतिरेकाव्यतिरेकादयः । आदिशब्देनाश्रितत्वादयो गृह्यन्ते, नहि वस्तुगता एव धर्मास्तत्कथमपोहे कल्पनाशिल्पिघटितविग्रहे प्रतिष्ठां लभेरन् । यञ्चोक्तं-"क्रियारूपत्वादपोहस्य विषयो वक्तव्य" इति, तदसिद्धम् , शब्दवाच्यस्यापोहस्य प्रतिबिम्बात्मकत्वात् । तच्च प्रतिबिम्बकमध्यवसितबाह्यवस्तुरूपत्वान्न प्रतिषेधमात्रम् । अतएव किं गोविषयोऽथागोविषय इत्यस्य विकल्पद्वयस्यानुपपत्तिः, गोविषयत्वेनैव तस्य विधिरूपतयाऽप्यवसीयमानत्वात् ॥ ११९१ ॥
यच्चोक्तं-केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यत” इति, तत्राह-अन्यार्थविनिवृत्तिं चेत्यादि।
अन्यार्थविनिवृत्तिं च साक्षाच्छब्दः करोति नः । कृते स्वार्थाभिधाने तु सामर्थ्यात्साऽवगम्यते ॥ ११९२ ॥ न तदात्मा परात्मेति विस्तरेणोपपादितम् । परपक्षानभिज्ञेन तस्मादेतदिहोच्यते ॥ ११९३ ॥
केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यते । । इति नैवाभिमुख्येन शब्देनैतदपोह्यते ॥ ११९४ ॥ ___ यदि हि प्रधानेनान्यनिवृत्तिमेवशब्दः प्रतिपादयेत्तदैतत्स्यात् , यावताऽर्थप्रतिबिम्बकमेव यथोक्तं प्रथमतरः शब्दः करोति, तद्गतौ च सामर्थ्यादेव निवर्त्तनं गम्यत इति सिद्धान्तानमिज्ञतया यत्किचिदमिहितमेतदिति संक्षेपार्थः । शेषं सुबोधम् ॥ ११९२ ॥ ११९३ ॥ ११९४ ॥